________________
४४
काव्यप्रकाशखण्डन
चेन्न । अस्माच्छब्दादयमों बोद्धव्य इति शब्दस्य शक्तिग्रह विषयत्वेनः विशेषणपदार्थवत् पदस्याप्युप[प० २७. १ स्थितिः । पदान्तरोपादाने, च तदुपस्थित्या प्रतीत्यन्यथात्वं स्फुटमेव । तदुक्तम् -
"न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते ॥" इति । भमप्रक्रमोऽपि न पृथक्, एतस्यानुचितार्थ एवान्तर्भावात् । 'अक्रमः - न विद्यमानः क्रमो यत्र । यदुत्तरं यत्पदोपादानं युक्तं तदुत्तरं न तत्पदोपादानमित्यर्थः ।
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ॥ इत्यत्र त्वंशब्दादनन्तरं चकारो युक्तस्तदैव तस्याः समुच्चेयता प्रतीतिः । अयमपि न पृथक्, अपदस्थपदमध्येऽन्तर्भावात् ।
अमतः- प्रकृतविरुद्धः परार्थो यत्र, प्रकृतरसविरुद्धरसव्यञ्जकत्वमित्यर्थः । रसविरोधस्तु
ज्ञेयौ शृङ्गार-वीभत्सौ तथा वीर-भयानको ।
रौद्राद्भुतौ तथा हास्य-करुणौ वैरिणौ मिथः ॥ इति । उदा०
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी।
गन्धवद् रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ॥ सा निशाचरी ताडका जीवितेशस्य यमस्य, पक्षे प्रियतमस्य, वसतिं गृहं जगाम गतवती । कीदृशी ? रामो दाशरथिः स एव यो मन्मथो मनोमथनः, पक्षे कन्दर्पः, तस्य शरेण बाणेन, हृदये वक्षसि ताडिता कृतप्रहारा । दुःसहेन तीव्रण, गन्धवद् गन्धयुक्तं यद् रुधिरचन्दनम् , रुधिरं रक्तमेव चन्दनम् , एक्षे रक्तचन्दनम् , तेनोक्षिता सिक्ता । रामशरसम्बन्धेन पापक्षयाच्च रुधिरस्य गन्धवत्त्वमिति भावः । अत्र प्रकृतो बीभत्सो रसः । तद्विरुद्धस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः । दूषकताबीजं तु शृङ्गाररसव्यञ्जकैर्यदि बीभत्सः प्रत्यायनीयः स्यात्, तदा कथं तस्य परिपुष्टिरिति ध्येयम् । एतस्यानुचितार्थता व्यक्तैवेति अनुचितार्थ एवान्तर्भावः । अथार्थदोषानाह -
अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ (मू० का० ५५, उ०) सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरु[ प० २७. २ ]द्धश्च । अनवीकृतः सनियमानियमविशेषोऽदिशेषपरिवृत्तः॥(मू० का० ५६) साकाङ्खोऽपदमुक्तः सहचरभिन्न प्रकाशितविरुद्धः। . विध्यनुवादायुक्तस्त्यक्तपुनः स्वीकृतोऽश्लीलः ॥ (मू० का० ५७).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org