SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३८ • अथ पदैकदेशे यथासंभवमुदाहरणम् - अलमतिचपलत्वात् स्वममायोपमत्वात् परिणतिविरसत्वात् सङ्गमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा || अत्र त्वात् इति कष्टम् । एवमन्यदपि ज्ञेयम् । अथ वाक्यमात्रगामिदोषानाह - प्रतिकूलवर्णमुपतलु सविसर्ग विसन्धि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्ष समाप्तपुनरात्तम् ॥ ( मू० का० ५३ ) ... काव्यप्रकाशखण्डन अपदस्थ पदसमासं विमर्तपरार्थं प्रसिद्धिपरिहीनम् । ... ( मू० का ० ५४, उ० ) भग्नप्रक्रममक्रम[ १० २३.२ ] मभवन्मतयोगं वाक्यमेव तथा ॥ रसानुगुणत्वं वर्णानां प्राचीनसंमतं वक्ष्यते, तद्विपरीतत्वं शृङ्गारे - अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर । अत्र मधुरवर्णत्वमुचितम् । एवं रौद्रादौ मसृणवर्णाः प्रतिकूला इति मन्तव्यम् । इदं च न चारु । तत्तद्रसेषु तत्तद्वर्णानामानुकूल्यस्य प्रातिकूल्यस्य वा सर्वैरनभ्युपगमत्वात् । सन्धेर्वैरूप्यं विश्लेषः । Jain Education International (मू० का० ५५, पू० ) प्रतिकूलत्वम् । यथा उपहतम् - ओ ( उ ) त्वं प्राप्तो लुप्तो वा विसर्गों यत्र तत् । यथा - धीरो विनीतो निपुणो निर्विकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥ अत्र नैरन्तर्येणानेक स्थानोपहत विसर्गत्वेनैव दूषकता । एवं उपहतेत्यादिचतुःषु पतत्प्रकर्षे च बन्धशैथिल्यापादकत्वमेव दूषकताबीजम् । राजन् ! विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः । धीदोर्षले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः ॥ " १ 'संकीर्ण गर्भितं प्रसिद्धिहतं' इति मु. पु. २ " क्रमममतपरार्थं च' इति मु. पु. पादः । For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy