________________
सप्तम उल्लास . राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् ।
तपनीयशिलाशोभि कटिश्च हरते मनः॥ अत्र कटिरिति ग्राम्यम् , श्रोणीनितम्बादिकमौ पनागरिकम् । इत्यत्र विनिगमकस्य वक्तुमशक्यत्वात् । अत्र वक्तुरवैदग्ध्यं रसापकर्षश्च दूषकताबीजम् । नेयार्थम् - यद् रूढि-प्रयोजनाभ्यां लक्षणयाऽप्रयुक्तम् । यथा- .
वस्त्रवैडूर्यचरणैः प्रातर्युक्तं नभस्तलम् ।
कश्मीररागारुणितं विष्णोर्वक्ष इवाबभौ ॥ वस्त्रवैडूर्यचरणैरम्बररत्नपादरित्यर्थो नेयार्थम् । दूषकताबीजं तु कवेरव्युत्पत्तिसन्धानेन वैरस्यापादकत्वम् । . एवम[ प० २३. १ ]वाचकं सङ्केतविरहादबोधकम् । असमर्थेनासङ्केतः लाक्षणिकेनाबोधकत्वमिति तयो प्रसनः । यथा -
अवन्ध्यकोपस्स विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस जन्तुना न जातहार्दैन न विद्विषादरः ॥ अत्र जन्तुपदमदातरि प्रयुक्तम् , तत्र नाभिधायकमिति । तदपि न चारु, तात्पर्यानुपपत्त्या लक्षणयो सामान्यशब्दस्यादातृत्वविशेषपरत्वसंभवात् ।
विरुद्धमतिकृद् - यत् तात्पर्यविषयीभूतार्थधीप्रतिबन्धकीभूतासभ्यार्थोपस्थापकम् । अनुचितार्थाश्लीलयोन परस्परं प्रति प्रतिबन्धकता । निहतार्थे विलम्बेन प्रतीतिरिति तयोभेदः । यथा
सुधाकरकराकारविशारदविचेष्टितः।
अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ॥ अत्र कार्य विना मित्रमिति विवक्षितम् , अकार्येषु मित्रमिति प्रतीतिः । • श्रुतिकटु समासगतं यथा
सा च दूरे सुधासान्द्रतरङ्गितविलोचना ।
बर्हिनिर्हादनार्दोऽयं कालश्च समुपागतः ॥ एवमन्यदपि बोध्यम् ।
अपास्य च्युतसंस्कारमसमर्थ निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ (मू० का० ५२) न पुनः सर्वे एते पददोषाः, साकासनानापदवृत्तयो यदा भवन्ति तदा वाक्यदोषाः इत्युच्यन्ते । थवा
अनङ्गमङ्गलगृहापाङ्गभङ्गिन्तरङ्गितः।
आलिङ्गितः स दीर्घाक्ष्याः का यं लभते कदा १ ॥ एवमन्येऽप्युदाहाय्योः। १ ममाम्पम् । २ भवाचकं तत् यत् शक्तिविरहादबोधकमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org