SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३६ C न दृश्यते । अथ च वीशालिनः परस्त्रीवश्वाद्युपायामिशस्य । तस्वारालियां मां सकामकटाक्षां श्रुवं कः प्रातिवेश्मिकादिः सहेत निःशङ्को वर्चेत इत्यर्थो निर्वाः । एवमन्य दप्युदाहार्यम् । काव्यप्रकाशखण्डन अविमृष्टविधेयांशमिति - अविमृष्टः प्राधान्येनादृष्टो विधेयांशो यत्र, तदविमृष्टविधेयांशम् । प्राधान्यं तु विधेयताप्रतीतियोग्यत्वम् 1 तदुक्तम् - यच्छब्दयोगः प्राथम्यं सिद्धत्वं वाऽप्यनूद्यता । तच्छब्दयोग आन्तर्य्यं साध्यत्वं च विधेयता ॥ तथा उद्देश्यं विधेयं च यदि पृथक् पदाभ्यामुपतिष्ठते तत्र प्राप्तमुद्दिश्य अप्राप्तं विधीयते । यथा पर्वतो वह्निमानिति । न तु समासे अन्यथा वह्निमत्पर्वत इत्याद्यभिधीयेत । उदाहरणम् - न्यक्कारो यमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो [१० १२. २] रावणः । धिग्धिक् शत्रु ( १ ) जितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥ - न्यक्कारः क इत्यत आह – यदरय इति । मम तु त्रैलोक्यं सेवकमेवेति न्याय्यम् । न तु प्रत्यर्थितया कस्यापि स्थितिरित्यर्थः । अल्पो ग्रामो ग्रामटिका । अत्रायमेव न्यक्कार इत्येव वाच्यम् । तदैव विधेयस्य प्राधान्येन निर्देशो भवति । अयं तु वादकथादौ दोषः । यन्मते खले कपोतन्यायेन शाब्दबोधः तन्मते दोषलेशोऽपि न । सन्दिग्धम् - तात्पर्यसन्देहास्पदी भूतार्थद्वयोपस्थापकम् । आलिङ्गितस्तत्र भवान् सम्पराये जयश्रिया । आशीः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥ अत्र च वन्द्यामिति बो(ब ) द्धायां किं नमस्यायामिति सन्दिग्धम् । नन्द्यामित्यत्र प्रथमे हठहृतमहिलायां कृपां कुर्विति । द्वितीये नमस्यां आशीः परम्परामित्यर्थोपपत्तौ साधक-बाधकमानाभावात् संशय इति भावः । अत्रार्थानिश्चय एव दूषकताबीजम् । अप्रतीतमिति - प्रतिशास्त्रे इतं ज्ञातं प्रतीतम्, न प्रतीतं यत्किञ्चित् शास्त्र परिभाषित - मित्यर्थः । यथा – Jain Education International सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन्न भवेत् कर्मसा (वं १) धनम् ॥ अत्राशयशब्दो वासनापर्यायो योगशास्त्र एव प्रसिद्ध इति विरलप्रयोगेन न झटिति प्रत्यायकत्वं दूषकताबीजम् । ग्राम्योऽविदग्धस्तत्प्रयुक्तं ग्राम्यम् । यथा wwwxxce For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy