________________
सप्तम उल्लास
एवं निहतार्थमपि न दूषणम्, द्वित्रिक्षण विलम्बस्याकिञ्चित्करत्वात् । एवमप्रयुक्तं तथाऽऽम्नातमपि कविभिर्नादृतमित्येवं रूपम् । उदा० यथायं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥
अत्र दैवतशब्दः पुंस्याम्नातोऽपि न केनचित् प्रयुज्यत इत्यप्रयुक्तम् । तदपि न दूषणम् । सत्यनुशासने कवेरनादरणं कवेरनादरायैव पर्यवस्यति ।
असमर्थ उपसंदानं विनाऽनुशिष्टार्था ( ? ) बोधकम् । उपसंदानं उपसर्गः । यथातीर्थान्तरेषु स्नानेन समुपार्जितसत्क्रियः । सुरस्रोतस्वतीमेष हन्ति संप्रति सादरम् ॥
अत्र हन्तीति गमनार्थः, बोधं प्रति स्वरूपायोग्यत्वं दूषकता बीजम् । इदमपि न दूषणं सम्यगिव प्रतिभाति । तथा हि, उद्धति-पद्धतीत्यादौ उपसंदानेन अनुशिष्टार्थबोधने सामर्थ्य अङ्गीकृतमेव । अनुपसंदाने सामर्थ्यं नास्तीति केन वार्यते ? । किञ्च, इदं तावत् काव्या काव्यसाधारणं दूषणम् काव्ये विशिष्य किमित्युच्यत इति न जानीमः ।
"
एवं च्युतसंस्कृति निरर्थ कानुचितार्थाश्लीला विमृष्टा विधेयांश सन्दिग्धाप्रतीत क्लिष्ट विरुद्धमतिकृतां काव्या काव्यसाधारणानां दोषाणां काव्ये विशिष्य दोषतया उपादानं न [५०२२. २] चारुतामावहति ।
एतेषां क्रमेणोदाहरणानि - च्युतसंस्कृति प्रागुदाहृतम् । अन्यदुदा हियते । निरर्थकम् — अर्थः प्रकृतार्थाखादपरिपोषणम्, तद्रहितं पदम् । यथा - उत्फुल्लकमलकेसरपराग गौरद्युते मम हि गौरि । अभिवाञ्छितं प्रसिद्ध्यतु भगवति । युष्मत्प्रसादेन ॥ अत्र हि पदं अनुचितार्थम् ।
३५
अवाच्यवचनम् -
तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशुगतिं मनखिनो रणाध्वरे ये पशुतामुपागताः ॥ अत्र पशुपदं कातरतां अभिव्यनक्तीति प्रकृतार्थोत्कर्ष प्रतिबन्धकत्वं दूषकताबीजम् । अश्लीलं त्रिधा - व्रीडा - जुगुप्साऽमाङ्गल्यव्यञ्जकत्वात् । सभ्यवशीकरणसंपत्तिः श्रीः तां लातीति, रैभ्रुतेर्लश्रुतिरिति लीलम्, न श्रीलं अश्लीलम् । क्रमेणोदा०
• साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालित (तां) भ्रुवम् ॥
अत्र साधनशब्दः पुंल्लिङ्गवाचकः, तत्स्मृत्या व्रीडा । सैन्यार्थस्तु विवक्षितः । ब्रीडापक्षे सुमहद् द्वादशाङ्गुलं यस्याश्वपुरुषस्य वर्त्तते । यत् साधनम्, अन्यस्य शशकस्य वृषभस्य वा १ उपसर्ग बिना । २ अनुशिष्टार्थः शक्यार्थः । ३ 'लश्रुते श्रुति" इत्यादर्शे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org