________________
३४
काव्यप्रकाश खण्डन
पाधिरिति । तथा च रत्याद्यवच्छिन्नचैतन्यस्य आनन्दांशे लेशेन स्थितिर्मुख्यार्थहतिः । सा च दोषज्ञानाद् भवति । तन्न युक्तम् ।
उत्तिविसेस कव्वो भासा जा होइ सा होउ ।
इति काव्यरसज्ञानां वाचोयुक्तिश्रवणात् । च्युतसंस्कृत्यादीनां मुख्यार्थहतित्वाभावात् - इत्याहुः ।
यद्यपि सर्वे दोषाः वाच्यवचन - अवाच्यवचनयोर्द्वयोरेवान्तर्भवितुमर्हन्ति, तथापि तयोरेव विषयविशेषप्रदर्शनार्थ विभागार्थं दोषानाह -
दुष्टं पदं श्रुतिकटु च्युत संस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ॥ (मू० का ५० ) सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत् क्लिष्टम् । अविसृष्टविधेयांशं विरुद्धमतिकृत् समासगतमेव ॥ ( मू० का ० ५१ ) श्रुतिकटुपदं दुष्टमेवं सर्वत्रान्वयः । श्रुतिकटुत्वं च मुख्यार्थापकर्षकत्वे सत्योजोव्यञ्जकवर्णवत्त्वं वीरादिष्वदुष्टतयातिप्रसङ्गवारणाय सत्यन्तम् । तथा चात्र प्रकृतरसव्यञ्जकाभावाद् रसोद्बोधरूपं कार्य न जायते । प्रतिकूलवर्णे तु प्रकृतरसप्रतिबन्धकवर्णैः प्रतिबध्यत इत्यनयोर्भेदः । वर्णानां रसव्यञ्जकत्वं तत्प्रतिकूलत्वं च वक्ष्यते । यथा -
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्य लभते कदा ॥
अत्र कार्तार्थ्यमिति श्रुतिकटु । नवीनास्तु - तन्न चारु, वर्णानां मुख्यार्थ पकर्षकत्वाभावात् । अत एव
अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लञ्जालोलैर्निमेष[ प० २१ २ ] पराङ्मुखैः । हृदयनिहितं भावाकृतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विलोक्यते ॥ इत्यत्र महाकविभिः शृङ्गारे परुषवर्णोपादानं कृतमिति वदन्ति । च्युतसंस्कृति व्याकरणलक्षणहीनं असाध्विति यावत् । यथाप्रजा इवाङ्गादरविन्दना मेः शम्भोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मधुजिध्वजिन्यः ॥ अत्र अरविन्दनामेरिति ग्रामगाम ( ? ) इति वा । तदपि न । तत्रान्वयबोधस्यानुभव - सिद्धत्वात् साधुशब्दस्मरणादिना वा द्वित्रिक्षणविलम्बस्या किश्चित्करत्वात्, मुख्यार्थहतेरभावांत्, तथाविधरचनायाः कवेरेवापकर्षो न रसोद्बोधस्य ।
१ 'अरविन्दं नाभौ यस्यासौ अरविन्दनाभः, इत्यच् विधानात्' । इति टि० ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org