________________
अथ दोषखरूपमाह -
सप्तम उल्लास
सप्तम उल्लासः ।
येषां ज्ञानाच्चमत्कारो न सम्यगुपजायते । सालङ्कारगुणेऽप्यत्र ते दोषाः परिकीर्त्तिताः ॥
अत्रेति काव्ये । दृष्टं हि लोके सगुणोऽपि सालङ्कारोऽपि दुष्टत्वेन ज्ञातो न तथा चमत्करोति तथा काव्यमपि । प्रकाशकृतस्तु
का० प्र० ५
Jain Education International
मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद् वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ ( मू० का० ४९ ) अत्र मिश्राः मुख्यायेदं मुख्यार्थ इति चतुर्थी प० २०.२ ]समासः । तच्च शब्दार्थयुगलम् । यस्म येन रूपेण रसव्यञ्जकत्वं तस्य तद्रूपप्रच्यवः । फलं तु रसस्य सम्यगनवभासः । लोकेऽपि दृष्टो दीपादिव्यञ्जकवैगुण्येन घटादेरपि सम्यगनवभासः । अर्थ - शब्दयोमुख्यार्थत्वं दर्शितम्, 'तदाश्रये' त्यादिना । इदं त्वग्रे व्याख्यास्यते । न चात्र शब्दार्थयोः रसव्यञ्जकतावच्छेदकरूपविरहो दोष इति पर्यवसन्नम् । तच्च न चारु । रूपान्तरविरहेण दोषाभावगुणालङ्काराणामेव रसव्यञ्जकतावच्छेदकतया दोषानुप्रवेशे आत्माश्रयापत्तेरिति वाच्यम् । यतो दोषाभावस्य रसव्यञ्जकतावच्छेदकरूपस्य रूपान्तरेण रसव्यञ्जकतावच्छेदकरूपेण प्रवेशोऽत्र कृतः, न तु दोषाभावत्वेन । क्वान्योऽन्याश्रयप्रसङ्गः । यद्वा श्रुतिकटुत्वादिनैव विशेषरूपेण प्रवेशः कर्त्तव्य इत्याहुः । अन्ये तु मुख्य इतरेच्छानधीनेच्छा विषयः, तच्च सुखम्, परमपुरुषार्थत्वात् । एवं च मुख्यत्वं तु सुखान्तरेऽप्यतिप्रसक्तमिति तद्वारणायार्थपदम् । अर्थत्वं अर्यमाणत्वं शब्दजन्यसाक्षात्कारविषयत्वमिति यावत् । काव्यादन्यतः शब्दात् न सुखस्य प्रत्यक्षता किन्तु शाब्दत्वमेव । शब्दे तज्जन्यप्रत्यक्षविषयतया तिव्यातिवारकं मुख्यपदम् । उक्तमुख्यत्वस्य सुखादन्यत्रासंभवात् । एतेनात्र पदार्थतावच्छेदकयोः परस्परव्यभिचाराभावात् न कर्मधारयोऽर्थपदवैयर्थ्यं चेति दूषणद्वयं निरस्तम् । हतिरपकर्षो न तु प्रतिबन्धो दुष्टेष्वपि रसानुभावात् । अपकर्षस्तु रसनिष्ठो धर्मविशेषः । दोषज्ञानं तु तद्वयञ्जकम् । न त्वेवं अभिधेयेऽर्थे मुख्यशब्दप्रयोगः, अर्थशब्ददोषविभागश्च न स्यात् । उक्तमुख्यार्थत्वस्य अपकर्षस्य च रसमात्रवृत्तेरित्यतः 'तदाश्रयादि' त्याद्युक्तम् । आश्रयणमाश्रयः उपायत्वेनापेक्षणम् । वाच्यो मुख्य इत्यन्वयः बाद भाको मुख्यपदप्रयोगः । आखादोपार्या प० २१.१ ]स्वं च दर्शितम् । उभयम् - रसो षाध्यश्ध । शब्दाद्यास्तदुपयोगिनः विभावादिकं प्रत्याय, रसप्रत्यायनात् । तेन रसोपायस्वेन, तेषु अर्थशब्दादिषु सः क्षेषः । न केवलं रसेऽपीत्यपेरर्थः । गुणवद्दोषोऽपि साक्षात् सम्बन्धेन रसे, व्यञ्जकत्वेन तु अर्थे शब्दादिष्विति व्याचक्षते । नवीनास्तु - एतन्मतनिष्कर्षस्तु रसापकर्षज्ञानजनकज्ञानविषयत्वं दोषत्वम्, अपकर्षस्तु रसनिष्ठोऽखण्डो
एवं च वाच्ये विभा
३३
For Private & Personal Use Only
।
www.jainelibrary.org