Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
सप्तम उल्लास .
४५
इत्येते प्राचीनैरर्थदोषाः कथितास्ते उक्तेषु शब्ददोषेष्वन्तर्भवन्तीति न पृथक् प्रतिपादितार्हाः ।
•
तथा हि – पुष्टं पोषणमुत्कर्षः, पश्चान्नञा समासः । तथा च प्रकृतवाक्योद्देश्योत्कर्षा - हेतुरूपस्यापुष्टार्थस्य । एवं पुनरुक्तस्य च अधिकपदे निरर्थके वान्तर्भावः । तथा कष्टस्य क्लिष्टेऽन्तर्भावः । एवं स्तुत्वा निन्दित्वा वा पुनरन्यथा कृतरूपस्य व्याहर्तस्य, तथा दुष्क्रमग्राम्याप्रसिद्धि विद्याविरुद्धापदमुक्ता लीलानाम् । एवं एकसमभिव्याहारनिर्दिष्टोत्तममध्यमाधमरूपस्य सहचरभिन्नस्य, तथा विधेयविरोध्यनुवादरूपस्यानुवादायुक्तस्य, तथा प्रकाशितविरुद्धस्यानुचितार्थ एवान्तर्भावः । तथा सन्दिग्धस्य सन्दिग्ध एवान्तर्भावः । एवमेकभङ्गिनिर्दिष्टानेकार्थरूपमनवी कृतत्वमपि न दोषः, किन्तु गुणाभावः । उक्तिवैचित्रयात्मक माधुर्यस्य नवीकृतत्वरूपगुणस्य वक्ष्यमाणत्वात् । ततोऽनवीकृते गुणाभावादेव रसापकर्ष - - कत्वम् । एवं निर्हेतु नियमपरिवृत्त विशेष परिवृत्त साकाङ्क्षाणां न्यूनपद एवान्तर्भावः । तथाऽनियमपरिवृत्तस्याधिकपदे, तथा विध्ययुक्तस्य विधेयाविमर्षे (र्शे), तथा त्यक्तपुनः स्वीकृतस्य समाप्तपुनरावृत्तेऽन्तर्भावः । नन्वेवमपि अधिकपदादीनां निरर्थकेऽन्तर्भावः स्यात्, इति चेद्, भवतु नाम का नो हानिः । उक्तमेव प्राग् - यद् वाच्यावचनं अवाच्यवचनमेव दोषद्वयम्, अन्यत् सर्वं तयोः प्रपञ्च इति ।
अथ प्राचीनोक्तापुष्टादीनां उदाहरणानि लिख्यन्ते । अत्रापुष्टः पुष्टिभिन्नः । पुष्टत्वं च विवक्षितार्थबाध हेत्वनुपादानकत्वम् । तद्विरहश्चाप्रयोजकत्वात् प्रयोजकेऽर्थलभ्यत्वात् । वृत्तिकृताऽपि [ १० २८. १ ] अति विततत्वादयोऽनुपादानेऽपि प्रतीयमानमर्थं न बाधन्त इत्युक्तम्, न त्वप्रयोजका एवेति ।
अतिविततगगनसरणिप्रसरण परिमुक्तविश्रमानन्दः । मरुदुल्लासित सौरभकमलाकरहासकृद् रविर्जयति ॥
रविर्भगवान् भास्करो जयति । कीदृश: ? अतिविततं अतिविस्तीर्णं यद् गगनमाकाशं तत्र या सरणिर्वर्त्म तत्र यत्प्रसरणं सञ्चरणं तेन परिमुक्तः परित्यक्तों विश्रमानन्दो विश्रामसुखं येनेत्यर्थः । मरुता वायुना उल्लासितमभिव्यक्तं सौरभं यस्य तादृशं यत् कमलं तस्यावलिः समूहः तस्या हास्यकृत् विकासकर्त्तेत्यर्थः । अत्रातिविततत्वादयोऽर्था अपुष्टाः । नन्विदमधिकपदत्वं पुनरुक्तत्वं वा स्यात् इति चेत्, उच्यते- नायमधिकः । तत्त्वं च अन्वयाप्रतियोगित्वात् भवति । प्रकृते तदभावात् । शब्दोपस्थिते पुनः शब्दानुपादानान्न पुनरुक्तः । अर्थपुनरुक्तिश्चापुष्टार्थ एवेतिभावः । केचित् तु - पोषणं पुष्टमुपकारः पश्चान्नञा बहुव्रीहिः । प्रकृतवाक्यार्थोत्कर्षा हेतुरपुष्टः । अतिविततेतेि - अत्र हि रविर्जयतीति रवेरुत्कर्षः प्रधानवाक्यार्थः ।
१ प्रकृतवाक्ये उद्देश्यो यः उत्कर्षस्तस्य यः अहेतुः अर्थः स अपुष्टार्थः । २ स्तुत्वा निन्दित्वा वा पुनरन्यथाकरणं व्याहतत्वम् । ३ अयुक्तः क्रमो दुःक्रम इत्यर्थः । ४ ' प्रसिद्धिविरुद्ध विद्याविरुद्धश्चेति इयम् ।' मूलादर्श एताः सर्वाः टिप्पण्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148