Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 74
________________ सप्तम उल्लास एवं निहतार्थमपि न दूषणम्, द्वित्रिक्षण विलम्बस्याकिञ्चित्करत्वात् । एवमप्रयुक्तं तथाऽऽम्नातमपि कविभिर्नादृतमित्येवं रूपम् । उदा० यथायं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥ अत्र दैवतशब्दः पुंस्याम्नातोऽपि न केनचित् प्रयुज्यत इत्यप्रयुक्तम् । तदपि न दूषणम् । सत्यनुशासने कवेरनादरणं कवेरनादरायैव पर्यवस्यति । असमर्थ उपसंदानं विनाऽनुशिष्टार्था ( ? ) बोधकम् । उपसंदानं उपसर्गः । यथातीर्थान्तरेषु स्नानेन समुपार्जितसत्क्रियः । सुरस्रोतस्वतीमेष हन्ति संप्रति सादरम् ॥ अत्र हन्तीति गमनार्थः, बोधं प्रति स्वरूपायोग्यत्वं दूषकता बीजम् । इदमपि न दूषणं सम्यगिव प्रतिभाति । तथा हि, उद्धति-पद्धतीत्यादौ उपसंदानेन अनुशिष्टार्थबोधने सामर्थ्य अङ्गीकृतमेव । अनुपसंदाने सामर्थ्यं नास्तीति केन वार्यते ? । किञ्च, इदं तावत् काव्या काव्यसाधारणं दूषणम् काव्ये विशिष्य किमित्युच्यत इति न जानीमः । " एवं च्युतसंस्कृति निरर्थ कानुचितार्थाश्लीला विमृष्टा विधेयांश सन्दिग्धाप्रतीत क्लिष्ट विरुद्धमतिकृतां काव्या काव्यसाधारणानां दोषाणां काव्ये विशिष्य दोषतया उपादानं न [५०२२. २] चारुतामावहति । एतेषां क्रमेणोदाहरणानि - च्युतसंस्कृति प्रागुदाहृतम् । अन्यदुदा हियते । निरर्थकम् — अर्थः प्रकृतार्थाखादपरिपोषणम्, तद्रहितं पदम् । यथा - उत्फुल्लकमलकेसरपराग गौरद्युते मम हि गौरि । अभिवाञ्छितं प्रसिद्ध्यतु भगवति । युष्मत्प्रसादेन ॥ अत्र हि पदं अनुचितार्थम् । ३५ अवाच्यवचनम् - तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशुगतिं मनखिनो रणाध्वरे ये पशुतामुपागताः ॥ अत्र पशुपदं कातरतां अभिव्यनक्तीति प्रकृतार्थोत्कर्ष प्रतिबन्धकत्वं दूषकताबीजम् । अश्लीलं त्रिधा - व्रीडा - जुगुप्साऽमाङ्गल्यव्यञ्जकत्वात् । सभ्यवशीकरणसंपत्तिः श्रीः तां लातीति, रैभ्रुतेर्लश्रुतिरिति लीलम्, न श्रीलं अश्लीलम् । क्रमेणोदा० • साधनं सुमहद् यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारालित (तां) भ्रुवम् ॥ अत्र साधनशब्दः पुंल्लिङ्गवाचकः, तत्स्मृत्या व्रीडा । सैन्यार्थस्तु विवक्षितः । ब्रीडापक्षे सुमहद् द्वादशाङ्गुलं यस्याश्वपुरुषस्य वर्त्तते । यत् साधनम्, अन्यस्य शशकस्य वृषभस्य वा १ उपसर्ग बिना । २ अनुशिष्टार्थः शक्यार्थः । ३ 'लश्रुते श्रुति" इत्यादर्शे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148