Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
चतुर्थ उल्लास'
२५ काव्यसर्वखत्वं च तत्र उभयशक्तिमूलः । अत्रेदमवधातव्यम् - वस्त्वलकृति-ध्वन्योः क्रमः संलक्ष्यते, रसभावादिषु क्रमो न लक्ष्यते इत्यलङ्कारशास्त्रयोगिन एव प्रष्टच्या इति । तत्र
अलङ्कारोऽथ वस्त्वेव शब्दादू यत्रावभासते ॥ (मू० का० ३८, उ.) प्रधानत्वेन स ज्ञेयः शब्दशतयुद्भवो द्विधा । (मू० का० ३९, पू०) वस्त्वेवेत्यनलकारं वस्तुमात्रम् । तत्राद्यो यथा- भद्रात्मन इत्यादि । अत्र मिथोऽसम्बन्धार्थद्वयबोधकत्वेन वाक्यभेदो मा भूदिति प्रकृताप्रकृतयोरुपमाऽलकारः कल्पनीय इति उपमाऽलकारो व्यङ्गय इति व्यवहर्त्तव्यम् । वस्तुमात्रं यथा
शनिरशनिश्च तमुच्चैनिहन्ति कुप्यसि नरेन्द्र ! यसै त्वम् ।
यस्य प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥ अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति वस्तु ध्वन्यते ।
अर्थशत्तयुद्भवेऽप्यर्थों व्यञ्जका सम्भवी खतः ॥ (मू० का० ३९, उ०) मौढोक्तिमात्र(त्रात्?)सिद्धो वा कवेस्तद्वर्णितस्य च । पस्तु वाऽलङ्कतिर्वेति षड्भेदोऽसौ व्यनक्ति यत् ॥ (मू० का० ४०)
वस्त्वलङ्कारमथवा तेनासौ द्वादशात्मकः । (मू० का० ४१, पू० ) इति । तत्र स्वतः संभवी न केवलं भणितिमात्रनिष्पन्नो बहिरौचित्येनापि संभाव्यमानः, प्रौढोक्तिमात्रा बहिरसन्नपि निमितः कविना कविनि[व]द्धवक्त्रेत्यन्यत् । अत्र अर्थशक्युद्धवस्य द्वादशभेदा इति यदुक्तं तदनुपपन्नम् । यतः - कविनिबद्धकवित्वात् । तेनायमर्थः-स्वतः सम्भवी प्रौढोक्तिमात्रसिद्ध [प० १६. १] इति द्विविधोऽपि प्रत्येक वस्त्वलहाररूपत्वेन चतुर्विधो व्यञ्जकः । तस्य प्रत्येकं वस्त्वलङ्कारो व्यङ्ग्य इत्यष्टविधो ध्वनिः । अन्यत् तु सर्व खबुद्धिसौष्ठवप्रकटनम् । स्वतःसंभव्यर्थशक्तिमूलध्वनिर्यथा
अलससिरमणी धुत्ताणमग्गिमो पुत्ति धनसमिद्धिमओ । श्य भणिएण नअंगी पफुल्लविलोअणा जाआ ॥ [भलसशिरोमणिः धूर्तानामप्रिमः पुत्रि धनसमृद्धिमयः ।
इति भणितेन नताङ्गी प्रोत्फुल्लविलोचना जाता ॥] अलसत्वेन अप्रवासित्वम् , धूर्तत्वेन विदग्धत्वम् , प्रोत्फुल्लविलोचनत्वेन हर्षों व्यज्यते । अत्र ममैवायं उपभोगयोग्य इति वस्तु खतः संभविनार्थेन व्यज्यते । प्रौढोक्तिमात्रनिष्पन्नाथशक्तिमूलध्वनिमाह -
'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअंती । अनुदिणमणण्णकम्मा अंगं तणुअंपि तणुएइ ॥ [ महिलासहस्रभृते तव हृदये सुभग सा अमान्ती ।
प्रतिदिनमनन्यको अङ्गं तनुकमपि तनूकरोति ॥] नोम्भितस्य वा' 8० पा०। २ 'तेनायं' मु. पा० । का० प्र०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148