Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 63
________________ काव्यप्रकाशखण्डन क्रमेणोदाहरणानि तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । आस्वा(श्वा)सितस्तत्क्षणमंसकूटे वामेतरेण स्फुरता भुजेन ॥ अत्राऽऽवेगस्य । विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वश्चितवामनेत्रा। . तथैव वातायनसंनिकर्षे ययौ शलाकामपरा वहन्ती ॥ अत्रौत्सुक्यस्य भावस्योदयः। तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्धृतमर्पयन्ती। मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ अत्राऽऽवेग-हर्षयोः सन्धिः । क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वमेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ विक्रमोर्वशीनाटके पुरूरवसो वाक्यमिदम् । अत्र वितर्क-औत्सुक्य-मति-स्मरण-शङ्कादैन्य-धृति-चिन्तानां तिलतण्डुलवच्चर्वमाणता । अत्र काकार्यमित्यादौ वितर्कः, भूयोऽपीत्यौत्सुक्यम्, दोषाणामिति मतिः, कोपेऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, खप्नेs. पीति दैन्यम् , चेत इति धृतिः, कः खल्विति चिन्ता,- इति खयं बोध्यम् । वस्तुतस्तु एतेषां पूर्वपूर्वोपमर्दैन परपरोदयः शबलता । मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन । (मू० का० ३७, पू० ) . राजानुगतविवाहप्रवृत्तभृत्यवत् । इदमयुक्तम् । तथा हि-रत्यादिसहचरणाद व्यभिचारिणां भवतु कथञ्चन मुख्यत्वम् , सर्वथा उदासीनानां भाव-प्रशमादीनां [प. १५.२] मुख्यत्वं न संभवति, मानाभावात् । अनुखानाभसंलक्ष्यक्रमव्यङ्गयस्थितिः परः॥ (मू० का० ३५, उ०) शब्दार्थोभयशक्तयुत्थस्त्रिधा स कथितो ध्वनिः। (मू० का० ३८, पू०) अनुखानः अनुरणनं तदाभस्तत्सदृशः संलक्ष्यः क्रमः पौर्वापर्य्यम् , अर्थाद् व्यञ्जकेन सह, यस्य एवंविधस्य व्यङ्ग्यस्य स्थितिर्यस्य स इत्यन्वयः । यथा ध्वनि-प्रतिध्वन्योः क्रमो लक्ष्यते तद्वद् वस्त्वलङ्कृति-तद्वयञ्जकयोरित्यर्थः । स च शब्दशक्त्युद्भवः, अर्थशक्युद्भवः, उभयशक्त्युद्भवश्चेति त्रिविधः । तत्र शब्दा यत्र परिवृत्तिं न सहन्ते स शब्दशक्त्युद्भवः । तदन्योऽर्थशत्तयुद्भवः । यत्र केचन शब्दाः परिवृत्तिसहिष्णवः केचिदन्यथा, उभयोरपि १ स्थितिस्तु यः।' मुद्रितपाठः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148