________________
काव्यप्रकाशखण्डन
क्रमेणोदाहरणानि
तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् ।
आस्वा(श्वा)सितस्तत्क्षणमंसकूटे वामेतरेण स्फुरता भुजेन ॥ अत्राऽऽवेगस्य ।
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वश्चितवामनेत्रा। . तथैव वातायनसंनिकर्षे ययौ शलाकामपरा वहन्ती ॥ अत्रौत्सुक्यस्य भावस्योदयः। तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिनिक्षेप एव पदमुद्धृतमर्पयन्ती।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ अत्राऽऽवेग-हर्षयोः सन्धिः । क्वाकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वमेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ विक्रमोर्वशीनाटके पुरूरवसो वाक्यमिदम् । अत्र वितर्क-औत्सुक्य-मति-स्मरण-शङ्कादैन्य-धृति-चिन्तानां तिलतण्डुलवच्चर्वमाणता । अत्र काकार्यमित्यादौ वितर्कः, भूयोऽपीत्यौत्सुक्यम्, दोषाणामिति मतिः, कोपेऽपीति स्मृतिः, किं वक्ष्यन्तीति शङ्का, खप्नेs. पीति दैन्यम् , चेत इति धृतिः, कः खल्विति चिन्ता,- इति खयं बोध्यम् । वस्तुतस्तु एतेषां पूर्वपूर्वोपमर्दैन परपरोदयः शबलता ।
मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन । (मू० का० ३७, पू० ) . राजानुगतविवाहप्रवृत्तभृत्यवत् । इदमयुक्तम् । तथा हि-रत्यादिसहचरणाद व्यभिचारिणां भवतु कथञ्चन मुख्यत्वम् , सर्वथा उदासीनानां भाव-प्रशमादीनां [प. १५.२] मुख्यत्वं न संभवति, मानाभावात् ।
अनुखानाभसंलक्ष्यक्रमव्यङ्गयस्थितिः परः॥ (मू० का० ३५, उ०)
शब्दार्थोभयशक्तयुत्थस्त्रिधा स कथितो ध्वनिः। (मू० का० ३८, पू०) अनुखानः अनुरणनं तदाभस्तत्सदृशः संलक्ष्यः क्रमः पौर्वापर्य्यम् , अर्थाद् व्यञ्जकेन सह, यस्य एवंविधस्य व्यङ्ग्यस्य स्थितिर्यस्य स इत्यन्वयः । यथा ध्वनि-प्रतिध्वन्योः क्रमो लक्ष्यते तद्वद् वस्त्वलङ्कृति-तद्वयञ्जकयोरित्यर्थः । स च शब्दशक्त्युद्भवः, अर्थशक्युद्भवः, उभयशक्त्युद्भवश्चेति त्रिविधः । तत्र शब्दा यत्र परिवृत्तिं न सहन्ते स शब्दशक्त्युद्भवः । तदन्योऽर्थशत्तयुद्भवः । यत्र केचन शब्दाः परिवृत्तिसहिष्णवः केचिदन्यथा, उभयोरपि १ स्थितिस्तु यः।' मुद्रितपाठः ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org