________________
चतुर्थ उल्लास. इति दिशा त्रासस्य व्यभिचारित्वम् । भयस्य स्थायित्वमिति बोध्यम् । तत्राऽऽदौ भावोदाहरणंम् - .
कण्ठकोणविनिविष्टमीश ! जे कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥. ननु कथमस्य न रसत्वम् ? 'नवरसा अन्ये भावा' इति खतनेच्छेन मुनिना विभागकरणात् । असुरादौ कवेः रत्यभावेऽपि तत्प्रतापादिवर्णनं तज्जेतुरुत्कर्षप्रतिपादनाय । व्यभिचारी यथा
जाने कोपपराङ्मुखी प्रियतमा स्वमेऽद्य दृष्टा मया ___ मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः। नो यावत्परिचुम्ब्य चाटुकशतैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥ अत्र रसेऽनुभूयमानेऽपि विधिं प्रत्यसूयैव काव्यसर्वखत्वेन अनुभूयत इत्यसौ भावध्वनिरिति व्यवहियते । 'प्राधान्येन व्यपदेशा भवन्तीति' न्यायात् । इयं भावस्थितिरुक्ता ।
तदाभासा अनौचित्यप्रवर्तिताः। (मू० का० ३६, पू० ) तदाभासा रसाभासा भावाभासाश्च । यथा
स्तुमः कं वामाक्षि! क्षणमपि विना यं न रमसे,
विलेभे कः प्राणान् खलु रणमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि! यमालिङ्गसि बलात्
__ तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ अत्र यं यमित्यसकृत्कर्मोपादानं अनेककामुकविषयमभिलाषं तस्याः व्यनक्ति । यद्यकविषयत्वमभिप्रेतं स्यात् तदासकृदेव कर्मोपादानं कुर्यात् । यद्वा रमणान्वेषणादिव्यापारा बहवस्ते च सर्वे एव वर्तमानकालीना नैकविषयत्वे संभवन्तीत्यनेककामुकविषयाभिलाषप्रत्ययाद रतेराभासत्वम् । [प. १५.१] वस्तुतस्तु परस्परजीवितसर्वखयोरनुरागस्यैव रसत्वात् शास्त्रातिक्रमाद्यनौचित्यं रसत्वविरोधीति ध्येयम् ।
भावाभासो यथाराकासुधाकरमुखी तरलायताक्षी सस्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत् किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः॥ अत्र चिन्ता अनौचित्यप्रवर्चिता । एवमन्येऽप्युदाहार्याः ।
भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ (मू० का० ३६, उ०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org