________________
काव्यप्रकाशखण्डन न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कांचिदिच्छा।
रसः प्रशान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रध्मनः ॥ एवं वीर-रौद्रयोन भेदः, विभावादिसाम्यात् । न च स्थायिभेद एव भेदकः, तस्यापि नियामकमुखप्रेक्षितत्वात् । यत् तु- . .
'रक्तास्यनेत्रता रौद्रे युद्धवीरात् तु भेदिनी ।' इत्याहुः, तन्न । क्रोधसञ्चारिणि वीरे तस्याः सुलभत्वेन भेदकत्वानुपपत्तेः । न च रौद्रे अविवेकत्वस्य वीराद भेदकस्य संभवाद भेद इति वाच्यम् । क्रोधसञ्चारिणि वीरेऽप्यविवेकत्वस्य संभवात् । दानवीरादीनां प्रभावातिशयवर्णन एव कवीनां तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्यनामाऽपि न रसः । भावेनैव गतार्थत्वात् ।
ननु कथं अजविलापादिकं कविभिर्वर्ण्यत इति चेत्, उच्यते-तेषां अज-महीपतिप्रभृतीनां स्वखप्रियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव च अजमहीपतेः खप्रियां इन्दुमती प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये । एवं भयातिशयवर्णनं तत्तद्व्यक्तीनां मार्दवप्रतिपादनाय । वस्तुतस्तु कविभिः खशक्तिप्रदर्शनार्थमेव पद्मबन्धाबन्धादिनिर्माणवत् तत्र तत्र प्रवर्त्यत इति । अथ भावस्वरूपम् - रतिर्देवादिविषया व्यभिचारी तथाचितः। (मू० का० ३५, उ०)
भावः प्रोक्तः। आदिग्रहणात् मुनि-नृप-पुत्रादिविषया । अञ्जितो व्यञ्जित इत्यर्थः । व्यभिचारिणो ब्रूतेनिर्वेद-ग्लानि-शङ्काऽऽख्यास्तथाऽसूया-मद-श्रमाः।
आलस्यं चैव दैन्यं च चिन्ता मोहो मदस्मृतिः॥ (मू० का० ३१) ब्रीडा चपलता हर्ष आवेगो जडता तथा। गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ (मू० का० ३२) सुप्तं वियोधोऽमर्षश्च अवहित्थमथोग्रता। मतियाधिस्तथोन्मादस्तथा मरणमेव च ॥ (मू० का० ३३) त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्या[प. १४.२ ]तास्तु नामतः॥
(मू० का० ३४) बलस्यापचयो ग्लानिः । शङ्काऽनिष्टसमन्वयः, अनिष्टसंभावनम् । परोत्कर्षाक्षमाऽसूया । अनर्थातिशयाचेतस्याऽऽवेगः संभ्रमो मतः । कोप एव स्थिरतरोऽमर्ष इति कथ्यते । अवहित्थमाकारगोपनम् । अर्थनिर्धारणं मतिः।
__ औत्पातिकैर्मनाक्षेपः त्रासः कम्पादिकारकः ।
पूर्वापरविचारोत्थं भयं त्रासाद् पृथग् भवेत् ॥ १ 'स्मृतिर्धतिः' इति मुद्रितपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org