________________
चतुर्थ उल्लास
२१
वीप्सायां यावत्संभवस्तावद् विधिः । प्रथमं कृतिं उत्कृत्योत्कृत्य अथ मांसानि जग्ध्वा क्रव्यमत्तीत्यन्वयः । उत्सेध उच्छूनता, उद्बोध इत्यपि पाठान्तरम्, अर्थस्तु स एव । स्फिक् ऊरूमूलकटिसन्धिभागः, पिण्डी जङ्घोर्ध्वभागः, 'पिण्ड' इति पाठे तदाकारकत्वात् । तथा स्थपुटं विषमगभीरभागः । करङ्कस्याङ्कसंस्थत्वं बलवत् पिशाचाशङ्कयैव, अत एव दृक्प्रेरणं दशनप्रकटनं च । अत्र शव आलम्बनम्, उत्कर्त्तनाद्युद्दीपनम्, नासाकुञ्चनादयोSनुभावाः, उद्वेगादयः सञ्चारिणः ।
अद्भुतमाह -
चित्रं महानेष नवाऽवतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः ।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एव सर्गः ॥ [प. १३.२ ]
अत्र 'चित्रं महान् बत लोकोत्तरम् अहो कापि नूतन' इति शब्दाः स्वसमभिव्याहृतशब्दार्थस्या लौकिकत्वप्रकाशकाः । अवतार इति सदाचारादिप्रवर्त्तकत्वात् । अविकार इति पाठे विकाराभाव इत्यर्थः । अत्र मा ( म ) हापुरुष आलम्बनम्, तद्गुणातिशय उद्दीपनम्, स्तवादयोऽनुभावाः, मति धृति-हर्षादयः सञ्चारिणः । एवं विभावादयो भावेष्वपि भाव्याः । अथ करुणादीनां कथं न रसत्वमिति चेत्, उच्यते - इष्टनाशादिभिश्चेतोवैक्लव्यं शोक उच्यते ।
तथा
'तथा
-
रौद्रशक्त्या तु जनितं वैक्लव्यं मनसो भयम् । क्षणादिभिर्ग जुगुप्सेति निगद्यते ॥
तत्वज्ञानाद् यदीर्ष्यादेर्निर्वेदः स्वावमाननम् ॥
इत्यादिनियुक्तशोकादिप्रवृत्तिकानां करुणादीनां रसत्वनिषेधात् । न च तेषां तथाभूतवेsपि अभिव्यक्तानन्दचिदात्मना सहाभिव्यक्तानां रसत्वमिति वाच्यम् । एवमपि स्थाय्यंशे रसत्वविरोधात् । अथालौकिक विभावाद्यभिव्यक्तानां तेषां रसत्वमुचितम्, सुरते दन्ताद्याघातस्यास्वाद्यवदिति चेत्, न । एवं क्षुधा पिपासादिनानाविधदुःखहेतु जनितचे तो वैक्लव्यस्यापि रसान्तरत्वापत्तेः । सुरते दन्ताघातस्य बलवत्कामसंभवदुःखनाशकत्वेन भारापगमानन्तरं सुखिनः संवृता स्म इतिवदुपादेयत्वम् । यत् तु शोकादयोऽपि रत्यादिवत् स्वप्रकाशज्ञानसुखात्मका इति तदुन्मत्तप्रलपितम् । किञ्च सामाजिकेषु मृतकलत्रपुत्रादीनां विभावादीनां शोकादिस्थायिभावस्य चर्वणीयेन अज - महीपालादिना सह साधारण्यम्, अनुपातादिदर्शनात् । वर्णनीयतन्मयभवनं चापेक्षितमिति चेत्, कथं ब्रह्मानन्दसहोदररसोद्बोध: ? कथं वा नाम (मा)ङ्गल्यम् ? अत एव केचिदजविलापादिकं न पठन्ति । बीभत्से तु मांसपूयाद्युपस्थित्या वान्तनिष्ठीवनादिकं यन्न भवेत् 'तदेवाश्चर्यम्, कुतस्तादृशपरमानन्दरूपरसोद्बोध इति । एवं भयेऽपि । तथा शान्तस्य त्यक्त - [ प १४.१] सर्ववासनेषु भवतु नाम कथञ्चिद् रसत्वम्, विषयिषु पुनः सर्वर्विषर्योपरमोपस्थित्या कथं रसत्वम् ? । तदुक्तम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org