________________
काव्यप्रकाशखण्डन - द्रोणे हतेऽश्वत्थाम्नो वचनं वेणीसंहारेऽर्जुनं प्रति-गुरोः पातकमेव गुरुपातकं तस्य कर्तर्यनुमन्तरि अनिराकर्तरि दण्डः समुचित इशि क्रमेणाऽऽहं- कृतमित्यादि । अयमहमनन्यसहायः, नरकरिपुणा कृष्णेन, क्रोधात् क्रमं विस्मृत्य प्रागनुमन्तुरुपादानम् । अत्रापकारिणोऽर्जुनादय आलम्बनम् , अस्त्रोद्यमनमुद्दीपनम् , रोदनमनुभावः, अन्यनैरपेक्ष्यगग्यगर्वः सञ्चारी। वीरमाह
क्षुद्राः सन्त्रासमेते विजहत हरयो क्षुण्णशक्रेभकुम्भा
युष्मदेहेषु लजां दधति परममी सायका निष्पतन्तः । सौमित्रे! तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः
किञ्चिभ्रूभङ्गलीलानियमितजलधि राममन्वेषयामि ॥ । दूताङ्गदे पद्यम् । एत इत्येवं सम्बोधनासंभवात् , एते यूयं विजहतेत्यन्वयः । विजहितेत्यत्रेहत्यघोरितीत्वापवादो जहातेश्चेति पक्षे इकारः। युष्मदेहेषु पतन्तः सायका लज्जां दधतीति न तत्र पतिष्यन्तीति भावः । सौमित्रेति मातृसम्बन्धोल्लेखेन निर्वीर्यत्वं व्यज्यते । अत्र राम आलम्बनम् , जलनिधिनियमनमुद्दीपनम् , नीचेषू-[ प. १३.१ पेक्षणं रामं प्रति स्पर्द्धा चानुभावौ, ऐरावतकुम्भसंचूर्णनस्मृतिः, लजां दधतीति गम्यो गर्वश्व सञ्चारिणौ । भयामकमाह -
ग्रीवाभङ्गामिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्द्धन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । दभैरर्दावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा
पश्योदग्रप्लुतित्वाद् वियति बहुतरं स्तोकमुा प्रयाति ।। अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यम् । गम्यदेशवैषम्यावैषम्यनिरूपणाय कादाचित्कविवर्त्तनेन रथदर्शनविच्छेदादाह - मुहुरिति । भूयसेति भूयसो लघुनिगोपनं न संभवतीत्यपि न गणयतीत्यर्थः । ततो भयपोषणं स्यन्दनात् भयमेव रसप्रकृतिः, तेन शरपतनादिति तद्भयस्य शब्दोपादानेऽपि न दोषः । श्रम विवृतेति दैवाद अश्यति, नादानं न वा विसर्गः । अत्र स्यन्दनमालम्बनम् , अनुसरणमुद्दीपनम् , पलायनमनुभावः, श्रमः सञ्चारी। बीभत्समाह -
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा
न्यसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आतः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org