Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 61
________________ काव्यप्रकाशखण्डन न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कांचिदिच्छा। रसः प्रशान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रध्मनः ॥ एवं वीर-रौद्रयोन भेदः, विभावादिसाम्यात् । न च स्थायिभेद एव भेदकः, तस्यापि नियामकमुखप्रेक्षितत्वात् । यत् तु- . . 'रक्तास्यनेत्रता रौद्रे युद्धवीरात् तु भेदिनी ।' इत्याहुः, तन्न । क्रोधसञ्चारिणि वीरे तस्याः सुलभत्वेन भेदकत्वानुपपत्तेः । न च रौद्रे अविवेकत्वस्य वीराद भेदकस्य संभवाद भेद इति वाच्यम् । क्रोधसञ्चारिणि वीरेऽप्यविवेकत्वस्य संभवात् । दानवीरादीनां प्रभावातिशयवर्णन एव कवीनां तात्पर्यमिति न तेषां रसत्वम् । एवं वात्सल्यनामाऽपि न रसः । भावेनैव गतार्थत्वात् । ननु कथं अजविलापादिकं कविभिर्वर्ण्यत इति चेत्, उच्यते-तेषां अज-महीपतिप्रभृतीनां स्वखप्रियानुरागप्रकर्षप्रतिपत्त्यर्थम् । अत एव च अजमहीपतेः खप्रियां इन्दुमती प्रति देहत्यागः कालिदासेन वर्णितः । एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये । एवं भयातिशयवर्णनं तत्तद्व्यक्तीनां मार्दवप्रतिपादनाय । वस्तुतस्तु कविभिः खशक्तिप्रदर्शनार्थमेव पद्मबन्धाबन्धादिनिर्माणवत् तत्र तत्र प्रवर्त्यत इति । अथ भावस्वरूपम् - रतिर्देवादिविषया व्यभिचारी तथाचितः। (मू० का० ३५, उ०) भावः प्रोक्तः। आदिग्रहणात् मुनि-नृप-पुत्रादिविषया । अञ्जितो व्यञ्जित इत्यर्थः । व्यभिचारिणो ब्रूतेनिर्वेद-ग्लानि-शङ्काऽऽख्यास्तथाऽसूया-मद-श्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहो मदस्मृतिः॥ (मू० का० ३१) ब्रीडा चपलता हर्ष आवेगो जडता तथा। गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ (मू० का० ३२) सुप्तं वियोधोऽमर्षश्च अवहित्थमथोग्रता। मतियाधिस्तथोन्मादस्तथा मरणमेव च ॥ (मू० का० ३३) त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्या[प. १४.२ ]तास्तु नामतः॥ (मू० का० ३४) बलस्यापचयो ग्लानिः । शङ्काऽनिष्टसमन्वयः, अनिष्टसंभावनम् । परोत्कर्षाक्षमाऽसूया । अनर्थातिशयाचेतस्याऽऽवेगः संभ्रमो मतः । कोप एव स्थिरतरोऽमर्ष इति कथ्यते । अवहित्थमाकारगोपनम् । अर्थनिर्धारणं मतिः। __ औत्पातिकैर्मनाक्षेपः त्रासः कम्पादिकारकः । पूर्वापरविचारोत्थं भयं त्रासाद् पृथग् भवेत् ॥ १ 'स्मृतिर्धतिः' इति मुद्रितपाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148