Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
चतुर्थ उल्लास • आधपादत्रयमेव विमलम्भोदाहरणम् । क्रूरेत्यादि वाक्यान्तरं भावाभिव्यञ्जकम् । अतः शठेन, विधिनेत्यस्य नानेन तुल्यता, तत्र समाप्तिपर्यन्तं यावत्-तावत्पदाभ्यामेकवाक्यत्वेनैवान्वयात् ।
यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये।
विमनायते यदैकस्तदा भवेत् करुण-विप्रलम्भः ॥ इति। . मूर्च्छितनायकादिविषयः करुण-विप्रलम्भोऽन्योऽप्यस्तीति प्राश्वः। अथ हास्यादीनां उदाहरणम् - आकुश्चय पाणिमशुचिं मम मूर्ध्नि वेश्या मनाम्भसा प्रतिपदं पृषतैः पवित्रे । तारखरं प्रहित)त्कमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥
हाहा हतोऽहमित्यन्तेन तादृशमुच्चार्येत्यर्थः । शर्मान्तनामश्रवणे हि हसितं स्यात् । अत्र विष्णुशर्मा आलम्बनम् , तस्य रोदनमुद्दीपनम् , द्रष्टुरुद्वेगजाड्यादयो व्यभिचारिणः, स्मितहसितातिहसितानि उत्तम-मध्यमेष्वनुभावाः । यस्य हासस्तदनिबन्धेऽपि सामर्थ्यात् तदवसायः । तदुक्तम् -
यस्य हासः स चेत् कापि साक्षान्नैव निबध्यते।
तथाऽप्येष विभावादिसामर्थ्यादवसीयते ॥ विकृतवाग्वेषादिदर्शनेनावश्यं हास्योदयाद् अत्र हास्यो रसः । करुणमाह
हा मातस्त्वरिताऽसि कुत्र [प.१२.२] किमिदं हा देवताः काशिषो
धिक् प्राणान् पतितोऽशनि तवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर- .
चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ तादृक्पूजादिभिरप्यरक्षणात् देवताक्षेपः । विविधदानादितपितानां द्विजानामाशीर्भिरपि न किञ्चित् कृतमित्याह - केति । मध्यरुद्ध इति बाप्पबाहुल्येनान्तरावस्थानम् । इत्थमिति गिर इत्यनेनान्वितम् । अत्र नृपयोषिदालम्बनम् , तत्शरीरवहिसंयोगादि उद्दीपनम् , नोदन. मनुभावः, दैन्यग्लानिमूर्छादयः सञ्चारिणः । रौद्रमाह. कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिदायुधैः । नरकरिपुणा सार्द्ध तेषां सभीमकिरीटिना
मयमहमसृग्मेदोमांसैः करोमि दिशां बलिम् ॥
१ 'काव्यस्य इति टिप्पणी' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148