________________
४
काव्यप्रकाशखण्डन
करणैर्यथा स्फोटव्यञ्जकशब्दस्य ध्वनिरिति व्यवहारः कृतः, तथाऽम्यैरपि आलङ्कारिभिर्वा - - च्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य । अत्रेदं बोध्यम् । स्फुटयत्यर्थमिति स्फोटः । ननु शब्दात् कथं पदार्थवाक्यार्थधीः १. आशुविनाशिनां क्रमिकाणां मेलकाभावाद्, आनुपूर्व्याः ज्ञातुमशक्यत्वाच्च । तेन च पूर्वपूर्ववर्णानुभर्वजनित संस्कारसहकृतेन अन्तिमवर्णानुभवेन स्फोटो व्यज्यते । स च ध्वन्यात्मकः । शब्दो नित्यो ब्रह्मखरूपः सकलप्रत्यायनक्षमोऽङ्गीक्रियते । तद्वयञ्जकश्च वर्णात्मकः शब्दः । वृत्तिस्तु व्यञ्जनैव । तद्व्यञ्जकः शब्दो ध्वनित्वेन व्यवहियत इति वैयाकरणमतम् । तदसत् । एवमन्तिमवर्णानुभवस्यैव पदार्थ प्रतीतिक्षमत्वे आनुपूर्वी ज्ञानस्योपायसंभवेन किमन्तर्गडुना स्फोटेन ! |
नायकानयनाय प्रेषितां तं संभुज्य समागतां दूतीं प्रति काचित् स्नानकार्यप्रदर्शन - मुखेन संभोगं प्रकाशयति -
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति । बान्धवजनस्याज्ञातपीडागमा ( मे १ )
वापीं स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ॥
sarai काव्यम् । अस्यार्थः - दूतस्य मिथ्याभाषणं स्वभावः इति दूति (ती). न तु सखी. तत्त्वे मत्प्रतारणं मत्प्रियसंभोगश्च न स्यात् । उद्देश्यकार्यानिर्वाहकतया बान्धवजनस्य पीडा भवति तन्न जानासि । तस्य नीचाभिलाषित्वेन प्रसिद्धस्य अतः अधमस्य । नीच [१० ३.१] कार्यकर्तुः प्राधान्येन । अधमशब्दस्य पदान्तरापेक्षया झटिति प्रकृतार्थव्यञ्जकत्वेन प्राधान्यम् । अत्र स्तनतटं निःशेषश्च (च्यु ) तचन्दनं, न स्तनसन्ध्यादि. तंत्र तथाविधनायककरस्पर्शायोगात् । एवमधरः परौष्ठः, तत्र रागो निर्मृष्टः, न तु पूर्वोष्ठे, तत्र चुम्बन निषेधात् । एवं नेत्रमध्ये चुम्बन निषेधात् दूरतएव निरञ्जने । एतत् सर्वं रत एव संभवति न तु खाने । स्नानं चेत् सर्व्वविच्छेदेनैव चन्दनच्यवनादि स्यात् । तथा च तथाविधचन्दनच्यवनादीनां रतैकसाध्यानां taraकार्यत्वबोधेन खातुं गतऽसीत्यत्र निषेधो न गताऽसीत्यत्र विधिश्व लक्ष्यते । न च तिषेधे कथं लक्षणेति वाच्यम् । अन्यथाऽसंगत्यापत्तेः । रन्तुमिति प्रयोजनं चेत्याहुः । तन्न । तथाविधानामपि चन्दनच्यवनादीनां स्वान कार्यत्वं संभवत्येव । तथा हि - वापीं स्नातुं गताऽसि न तु गृहम् । एतच्च विशिष्य वापीपदोपादानात् लक्ष्यते । तथा, स्तनतट एव निश्शेषच्युतिर्न स्तनसन्ध्यादिषु। वापीतीरस्य जनसङ्कीर्णतया तथाविधमार्जनाभावाद्, गृह एव तत्संभवात् । तथा, पूर्वोष्ठस्य न्युब्जतया बहलजलसम्बन्धाभावात्, न तत्र निश्शेषरागच्युतिः । किन्तु अधर एव, उत्तानत्वेन बहलजलसम्बन्धात् । तथा, स्नानकाले मुद्रणात् नेत्रमध्ये नानराहित्यम्, किन्तु दूरत एव । इत्यादिरूपेण स्नानकार्यत्वस्य संभवात् बाधकाभावात् कथं लक्षणा ? नवीना (न ? ) स्तु वक्तृबोद्धव्यवैशिष्ट्यात् व्यञ्जनैव तदाह । तदन्तिकमेव रन्तुं गताऽसीति व्यज्यत इति । मिश्रास्तु 'न गताऽसीति नञि काकुः, न गताऽसि ? अपि तु गताऽस्येवेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org