________________
प्रथम उल्लास • " तदन्तिकमेव ' इत्येवकारो गताऽसीत्यनन्तरं योज्य' इत्याहुः । अत्र त्वय्यकृतज्ञायां बान्धवबुद्ध्या यद् विश्वसिमि, यच्च तत्र दुर्विदग्धे दृढमनुरक्तास्मि तत् युक्तमेव । मय्येवंविधवञ्चनपात्रत्वमितीयहेतुकविप्रलम्भ मेदसंचारिनिर्वेदध्वनिः, तदनुगुणश्च दूतीसंभोगः, चन्दनच्यवनादीनां च बाच्यानां [प० ३.२ ] परिरम्भचुम्बनादीनां संभोगोत्कर्षद्वारेणेर्ष्याया उत्तेजकानां निर्वेदोत्कर्षकत्वमवसेयम् ।
अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । ( मू० का०५, पू० ) व्यङ्ग्ये वाच्यात् अनतिशायिनि अधिकचमत्काराकारिणि गुणीभूतव्यङ्गयं तन्मध्यमं काव्यम् । चित्रान्यत्वेऽपीति विशेषणम् । तेन चित्रे नाव्याप्तिः । उदाहरणम् - ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥
अत्र वञ्जुल [लता] गृहे दत्तसङ्केता नागतेति व्यङ्ग्यं गुणीभूतम्, तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ।
अत्र व्यङ्गयेन सङ्केतभङ्गेन विप्रलम्भाभासस्य वाच्यवदन कान्तिमा लिन्य मुखेनैव परिपोषणमिति तम्मुखप्रेक्षित्वात् तस्य गुणीभूतत्वमिति । आन्तरालिकव्यङ्ग्यापेक्षया गुणीभूतव्यङ्ग्यत्वम्, रसापेक्षया रसध्वनित्वमित्यवधेयम् ।
शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ( मू० का० ५,
उ०
अव्ययं चित्रमिति सामान्यलक्षणम् । शब्दचित्रं वाच्यचित्रमिति विभागः । चित्रमिति गुणालङ्कारयुक्तम् । यत्र तयोरेव प्राधान्येन चमत्कार कारित्वमित्यर्थः । अव्यङ्ग्यं स्फुटप्रतीयमानव्यङ्ग्यरहितम् । अवरं अधमम् । तत्र शब्दचित्रमाह -
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा
मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाऽह्नाय वः ।
Jain Education International
भिन्द्यादुद्यदुदारदर्दुरदरी दीर्घाऽदरिद्रद्रुम
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥
मन्दाकिनी वः युष्माकं अह्नाय झटिति मन्दतां भिन्द्यादित्यन्वयः । स्वच्छन्दं स्वाधीनं न तु वातादिपरतन्त्रम् । उच्छलदित्यम्बुविशेषणम् । कच्छे जलसमीपे तरङ्गैः खननात् यत्कुहरं बिलं छातमल्पं तदितरत् छटा परम्परा तथा मूर्च्छन् प्रादुर्भवन् मोहो वैचित्यं विस्मयो वा येषाम् । दर्दुरः मर्वतविशेषः तस्य दय गुहायां दैर्घ्यं यस्यास्तां भित्त्वा झटिति जलनिर्गमनेन दैर्घ्यं न तु तत्र तथा जलस्थगनं तेन वेगातिशयः । केचित् तु ' मन्दाकिनी [ १० ४.१ ] गङ्गा, दर्दुरो भेको न तु पर्वतविशेषः, तस्य दक्षिण दिग्गिरित्वेन गङ्गासम्बन्धाभावात्' इत्याहुः । अदरिद्राः परिणाहोच्छ्रायादिवन्तः, द्रोहः पातनं उद्रेक आधिक्यं तन्मयास्तद्युक्ता ये तरङ्गाः त एव निबिडः स्निग्धों का मदोऽहङ्कारो यस्याः ।
>
For Private & Personal Use Only
www.jainelibrary.org