________________
काव्यप्रकाशखण्डन • अर्थचित्रमाह -
विनिर्गतं मानदमात्ममन्दिराद् भवत्युपश्रुत्य यदृच्छयापि यम् ।
ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ मानदमिति शत्रूणां मानस्य खण्डकं मानस्य दातारं हयग्रीवदैत्यं खगेहात् प्रस्थितं श्रुत्वाऽपि भिया अमरावती निमीलितनेत्रेव भवति । कीदृशी ? ससंभ्रमेण सभयेनेन्द्रेण द्रुतं शीघ्रं पातिता दत्ता अर्गला द्वारदण्डो यस्याः सा तादृक् ।
संभ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि' - इति विश्वः । अत्र तूत्प्रेक्षाऽलङ्कारः । परन्तु रसादौ कथं तात्पर्यविरहोऽस्फुटतरत्वं वा तन्न ज्ञायते । हयग्रीवस्य वर्णनीयतत्प्रभावस्य स्फुटप्रतीतेः । .
अत्र केचित् - 'चित्रं न काव्यभेदः । व्यङ्ग्यस्य प्राधान्येन प्रतीतौ ध्वनित्वं तदन्यथागुणीभूतत्वमिति प्रकारान्तराभावादिति । तन्न । वाच्य-वाचकवैचित्र्यप्रतीतिव्यवहितप्रतीति]करसवत्त्वस्यास्फुटव्यङ्गयत्वस्य तृतीयप्रकारस्य संभवात् । ननु रसध्वनित्वादिना अयं तृतीयविभागः कृतः । स च नोपपद्यते । तथा हि-एतेषु त्रिषु सर्वत्र रसादिकं प्रतीयते न वा । नान्त्यः, तदा यत्र रसादिकं न प्रतीयते तत्र काव्यत्वविरहापत्तेः । नायः, तदा कथं ध्वनित्वादिविभागः । न च मध्यमे व्यङ्गयस्याप्राधान्याद विभाग इति वाच्यम् । आन्तरालिकव्यङ्ग्यस्याप्राधान्येऽपि तस्याकिञ्चित्करत्वेन चमत्कारापेक्षया सर्वेषां ध्वनित्वसंभवात् । अथ चित्रे गुणालङ्काराहितचमत्कारेण रसस्तिरोधीयत इति चित्रत्वम् , इति चेत् , न, अनवबोधात् । तिरोधीयत इत्यस्य कोर्थः। रसादेः प्रतीतिप्रतिबन्धो विलम्बेन प्रतीतिवी । नायः, तथा सति काव्यत्वविरहापत्तेः । नान्त्यः, गुणालङ्कारा हि रसोद्बोधकाः । [प० ४.२ ] तथा च तज्ज्ञानतदाहितचमत्कारान्तरं रसोद्बोधो युज्यत एवेति कथं न ध्वनित्वम् ? अत एव रसध्वनावपि गुणालङ्काररचना साधीयसी महाकवीनां दृश्यते । यथा
गग्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ इत्यत्र । ननु तर्हि 'खच्छन्दे'त्यादावपि पूर्वोक्तपद्यवद् ध्वनित्वे उत्तमत्वं स्यात्, इति चेन्न । अनुप्रासानामसमीचीनत्वेन तथाविधगङ्गाविषयकभावोत्कर्षवर्णनाविरहाच्चानुत्तमत्वात् । अत एव महिमभट्टानामस्सिन् पक्ष एव पक्षपातः । ॥ इति पादसाह-श्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुरात विधापकामहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाह-श्रीअक. ब्बरजल्लालदीनप्रदत्त-धु (खु)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते काव्यप्रकाशव(ख)ण्डने प्रथम उल्लासः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org