________________
द्वितीय उल्लास.
द्वितीय उल्लासः। . इदानीं शब्दार्थयोः खरूपमभिधातुं जयोविभागमाह - _ स्याद् वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा। (मू० का० ६, पू०) अत्र काव्ये, एषामा वाच्य-लक्ष्य-व्यङ्गयास्त्रयः । अथैषां स्वरूपम् -
शक्तिमत्त्वं वाचकत्वं शक्तिर्जातौ परं मता।
ईश्वरेच्छाविशेषोऽथ पदार्थान्तरमेव सा ॥ यंत्र यस्य शक्तिस्तत्र तस्य वाचकत्वम् । यद्यप्यर्थक्रियाकारितया व्यक्तावेव शक्तिर्युक्ता । अर्थः प्रयोजनं. क्रिया निर्वाहः. तथापि जातावेव शक्तिः. तत्तदृविशिष्टायां व्यक्ती गौरवादानन्त्याद् व्यभिचाराच्च । यत्र त्वानन्त्य-व्यभिचारौ न स्तः तत्राकौशादिपदे व्यक्तावेव शक्तिः । जातिविशिष्टबोधस्तु जातिशक्तं पदं जातिविशिष्टं बोधयतीति कार्यकारणभावकल्पनया लक्षणया वा आक्षेपेण व्यञ्जनया वेति ध्येयम् । ईश्वरेच्छाविशेष इति । अस्माच्छब्दादयमों बोद्धव्य इत्याकारिका ईश्वरेच्छा । ननु अस्य शक्तित्वे एतादृश्या लक्षणास्थलेऽपि सत्त्वात् [प० ५. १] लक्षणोच्छेदः स्यात् । इति चेत् , न । गङ्गापदात् प्रवाहरूपोऽर्थो बोद्धव्य इति विशेषरूपाया ईश्वरेच्छायाः शक्तित्वाभ्युपगमात्; तत्रैवानुशा. सनादिप्रमाणसत्त्वाच्च । मीमांसकमेतद्वाह(१)पदार्थान्तरमिति । लाक्षणिकं खरूपमाह -
मुख्यार्थान्वयबाधे स्यात् अन्यार्थप्रतिपत्तिकृत् । लक्षणा शक्यसम्बन्धो रूढितोऽथ प्रयोजनात् ॥ अत्र तात्पर्यविषयान्वये मुख्यार्थतावच्छेदकरूपेण मुख्यार्थप्रतियोगिताविरह इति विवक्षणीयम् । अन्यथा 'काकेभ्यो दधि रक्ष्यता'मित्यजहत्खायामव्याप्तिः; दध्युपघातकत्वेन तत्र काकस्याप्यन्वयात् । विवक्षिते तु काकत्वेन अन्वयबाधान्नाव्याप्तिः । विभजते-रूढिरित्यादि । रूढितः प्रसिद्धेः प्रयोगप्रवाहादिति यावत् । अत्र 'कर्मणि कुशल' इत्यादौ दर्भग्रहणरूपमुख्यार्थबाधात् 'गङ्गायां घोष' इत्यादौ च घोषाद्यधिकरणताऽसंभवात् प्रसिद्धः]। द(वृ?)क्षतटादिप्रतीतिस्तु शक्यसम्बन्धग्रहपूर्विकेति शक्यसम्बन्धो लक्षणेत्युच्यते । प्रयोजनवती विभजते
यत खार्थेन पराक्षेपः स्वार्थ हित्वाऽन्यकल्पनम् । 'उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥' (मू० का० १०, उ०) 'शक्किलक्षणाव्यञ्जनात्मकवृत्तीनां त्रित्वाच्छन्दे त्रित्वमुपचर्यत इत्यर्थः । २ यत्र यस्य शक्तिः स तस्य वाचक इति निष्कर्षः । ३ आकाशादिपदेषु जात्यभावादेकव्यक्तिकेषु व्यक्तावेव शक्तिरिति निष्कर्षः। ४ जातादेव शक्तिय॑क्कावाक्षेप इति भाडाः । तद्धी नान्तरीकतया व्यक्तेर्भानमिति प्राभाकराः । जात्याकृतिव्यक्तिषु शक्तिरिति गौतम-वैशेषिक् । जाति-व्यक्त्योः शक्तिरिति पाणिनीयाः ।' इति मूलादर्शे टिप्पण्यः । । मुद्रितपुस्तकेषु तु श्लोकोऽयं प्रायोऽन्यथारूपेण दरीदृश्यते । यथा
"मुख्यार्थबाघे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥" श्लोकाङ्क ९
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org