________________
प्रथम उल्लास. 'तु शोभाविशेष एवोत्कण्ठाकारणमिति ब्रूमः । यद्यपि कतिपयाक्षराणामत्र द्विरावृत्तिरस्तीत्यनुप्रासः संभाव्यते । तथापि - 'स्वच्छन्दोच्छलदच्छकच्छकुह[प० २.१ रच्छातेतराम्बुच्छटा मूर्छन्मोहमहर्षिहर्षे'त्यादिवच्चतुष्पञ्चाद्यावृत्त्या [अ]भावान्नात्र स्फुटताऽनुप्रासस्येति गम्यम् । विशेषविचारस्त्वस्मत्कृतबृहट्टीकातोऽवसेयः । अत्र केचित् - 'अदोषत्वं यत्किञ्चिद्दोषाभावो वा यावदोषाभावो वा ? । नाद्यः, अव्यावर्तकत्वात् । नान्त्यः, तथासति काव्यलक्षणं निर्विषयं विरलविषयं वा स्यात् । यावदोषाणां दुनिवारत्वात् । तस्माद् 'वाक्यं रसात्मकं काव्यमिति लक्षणम् । तथा च दुष्टेऽपि रसान्वये काव्यत्वमस्त्येव परन्त्वत्कर्षमात्रम् । तदुक्तम्
कीटादिविद्धरत्नादिसाधारण्येन काव्यता।
दुष्टेष्वपि मता यत्र रसायनुगमः स्फुटः ॥ इति । __ एवं चालङ्कारादिसत्त्वे उत्कर्षमात्रत्वम्' इति वदन्ति । परे तु 'यदंशे दोषस्तदंशेऽकाव्यत्वम् , यदंशे दोषाभावस्तदंशे काव्यत्वम्. यथा एकमेव ज्ञानं प्रमाऽप्रमा चेति. दोषसामान्याभाव एव विवक्षणीय' इत्याहुः । तन्न । एकमेव पचं अंशे काव्यं अंशेऽकाव्यमिति व्यवहाराभावात् । अन्ये तु 'दोषसामान्याभाव एव लक्षणे प्रवेश्यः. विरलविषयत्वं काव्यलक्षणस्येष्टमेव. दुष्टं काव्यमिति प्रयोगस्य दुष्टो हेतुरितिवत् समर्थनीयत्वाद्' इति प्राहुः । परे तु 'काव्यमा. खादुजीवातुः पदसंदर्भ' इति वदन्ति । तन्न । आखादुजीवातुतावच्छेदकरूपाऽपरिचये तस्य ज्ञातुमशक्यत्वात् । तत्परिचये तस्यैव लक्षणत्वसंभवात् । नवीनास्तु 'काव्यत्वमखण्डोपाधिः, चमत्कारजनकतावच्छेदकस्य काव्यपदप्रवृत्तिनिमित्तस्य चान्यस्य वक्तुमशक्यत्वात् , तदेव लक्षणमस्तु, किमनेनाननुगतेन लक्षणेन' इति वदन्ति ।
'सगुणावि'ति गुणव्यञ्जकावित्यर्थः । गुणानां रसैकधर्मत्वात् शब्दार्थयोः सगुणत्वाभावात् । 'अनलकृती' इति सालङ्कारावित्यर्थः ।
यदपि 'काव्यत्वं शब्दार्थोभयवृत्ति' तदपि न । काव्यं करोति, काव्यं पठति, शृणोति चेति व्यवहाराच्छब्द एव काव्यत्वं कल्पनीयम् । ननु आखादव्यञ्जकत्वमेव काव्यत्वप्रयोजकम् , तच्च शब्देऽर्थे चावि[५० २.२ ]शिष्टम् , तथा च कथं काव्यं करोतीति व्यवहारस्थ शब्दमात्रपरत्वम् ? इति चेत् न । आखादव्यञ्जकानामन्येषामपि सत्त्वात् तेष्वपि काव्यत्वं खीकुरु । उभयवृत्तित्वकल्पने गौरवात् काव्यं करोतीति काव्यपदस्य शब्दमानपरत्वे बीजत्वात् । अथ काव्यभेदानाह - इदमुत्तममतिशयिनि व्यगये वाच्यात् ध्वनिर्बुधैः कथितः॥
(मू० का० ४, उ०) व्यङ्गये वाच्यात् अतिश[यि]नि अधिकचमत्कारकारिणि सति उत्तमं काव्यम् । बुधैवैया. . . 'बिजातीयसुखामियक्तिजनकतावच्छेदकस्येत्यर्थः।' इति मूलादर्श टिप्पणी ।.. ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org