________________
काव्यप्रकाशखण्डन मुखादिकं चन्द्रत्वादिनैव वर्ण्यते नान्येनेति नियम[स्य] सत्त्वात् । अथ शब्दार्थों काव्य'मित्युव्यते । अर्थे तु नित्यानित्यसाधारणे नादृष्टजन्यत्वमस्तीति चेन्न । अर्थ काव्यत्वस्य निराकरिष्यमाणत्वात् । 'हादैकमयी मिति । इदमपि विरुद्धम् । अन्येषां भावानामिव काव्यस्यापि सुख-दुःख-मोहात्मकत्वस्य संभवात् । 'अनन्यपरंतन्त्रा'मिति । इदमपि न चारु । तथा हि अत्रान्यपदस्य भारत्यन्यत्वस्य वक्तव्यत्वे भारत्यन्यकवितत्प्रतिभादेः काव्ये कारणत्वसंभवात् । 'नवरसरुचिरा'[प० १.२ मिति । नवरसा चासौ रुचिरा चेति कर्मधारयः । वृत्तौ 'षट्()रसा हृद्या न तैरिति व्यक्तिद्वयदर्शनात् । अथवाऽस्तु तृतीयातत्पुरुषः । न च नवरसीति प्रयोगापत्तिः । त्रिभुवनमित्यादिप्रयोगवदस्यापि सिद्धेः । इदमप्यसाधीयः । बीभत्सादीनां रसत्वस्य निराकरिष्यमाणत्वात् । रसे नवत्वासंभवात् । अथ काव्यस्य फलम् - काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यापरिनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥ (मू० का० २) इदमप्युपलक्षणंम् । काव्यस्य परमेश्वरस्तवादिरूपतया चतुर्वर्गस्यैव साधनत्वादिति । अथास्य कारणम् - . शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात्।
काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ (म० का० ३) अत्र तस्य काव्यस्य उद्भवे निर्माणे समुल्लासे त्रयः शक्ति-निपुणताऽभ्यासा हेतुरित्युक्तम् । तदपि तुच्छम् । डिम्भादावपि काव्योद्भवदर्शनात् , शक्तरेव हेतुत्वात् । अथास्य लक्षणम् -
तददोषी शब्दार्थों सगुणावनलङ्कृती पुनः कापि । (मू० का० ४, पृ०) तथा च अदोषत्वे सति सगुणत्वे च सति स्फुटालङ्काररसान्यतरवत्त्वं काव्यत्वमिति फलितार्थः । 'क्वचित् तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः । नमोऽल्पार्थत्वात् । अल्पत्वस्य चात्रास्फुट एव विश्रान्तेः । स्फुटालङ्कारविरहोदाहरणं यथा
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवासि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ अनेन वाक्येन तत्रोपकान्तसमागमोऽपि ध्वन्यत इति केचित् । तन्न । 'स एव हि वर' इत्यनेन पुरुषान्तरनिषेधात् । निष्कारणकदोषोद्भावनस्य च प्रामाणिकानामसम्मतत्वात् । वयं ... 'पर' इति मुद्रितपाठः। २'लोके शास्त्रकाव्याघवेक्षणात्' इति मु.पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org