SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचितं काव्यप्रकाशखण्डनम् । ॥ ऐं नमः । महोपाध्याय-श्रीभानुचन्द्रगणिगुरुभ्यो नमः ॥ श्रेयःश्रियं तनुमतां तनुतां स शम्भुः श्रीअश्वसेनधरणीरमणाङ्गजन्मा। उत्कण्ठिता त्रिपथगानिभतस्त्रिमूर्तियालोकते त्रिजगतीमिव यस्य कीर्तिः॥१ जीयाच्छीमदुदारवाचकसभालङ्कारहारोपमो लोके संप्रति हेमसूरिसदृशः श्रीभानुचन्द्रश्चिरम् । श्रीशत्रुञ्जयतीर्थशुल्कनिवप्रत्याजनोद्यद्यशाः शाहिश्रीमदकब्बरापित 'म हो पा ध्या य' दृप्यत्पदः ॥२ शाहेरकब्बरधराधिपमौलिमौलेश्वेतःसरोरुहविलासषडंहितुल्यः । विद्वच्चमत्कृतिकृते बुधसिद्धिचन्द्रः काव्यप्रकाशविवृतिं कुरुतेऽस्य शिष्यः ॥३ प्रायाः कापि गिरो गुरोरिह परं दूष्यं परेषां वचो वृन्दं मन्दधियां वृथा विलपितं नास्माभिरुट्टतितम् । अत्र स्वीयविभावनैकविदितं यत् कल्पितं कौतुकाद् वादिव्यूहविमोहनं कृतधियां तत्प्रीतये कल्पताम् ॥ ४ पररचितकाव्यकण्टकशतखण्ड[खण्ड]नताण्डवं कुर्मः । कवयोऽद्य दुर्दुरूढाः खैरं खेलन्तु काव्यगहनेषु ॥ ५ तत्रादावनुवादपूर्वकं का व्य प्रकाश ख ण्ड न मारभ्यते । नियतिकृतनियमरहितां हादैकमयीमनन्यपरतश्राम् । नवरसरुचिरा निर्मितिमादधती भारती कवेर्जयति ॥ (मू० का० १) नियतिरदृष्टं तस्कृतो नियमस्तद्रहितामित्यर्थः । अत एवोक्तम् - भपारे काव्यसंसारे कविरेकः प्रजापतिः। यथाऽमै रोचते विश्वं तथैव परिवर्तते ॥ इति । अयमों न साधुः । काव्येऽपि नियमस्य सत्त्वात् । शब्दे छन्दःप्रभृतिषु तथा च उपद्रसविशेषे तत्तद्रीतिविशेषे तत्तत्मबन्धे भाषाविशेषे च नियमस्य सत्त्वात् । अर्थेऽपि . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy