Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 49
________________ १० काव्यप्रकाशखण्डन भम धम्म वीसत्थो सो सुनओ अअ मारिओ देन । गोडा प० ६.२ ]इकच्छ कुडंगवासिणा दरिअसिँहेन ॥ इत्यत्र गृहे भयहेतुश्वनिवृत्तिजन्यभ्रमण विधानेन गोदावरीतीरस्य सिंहवत्त्वेन मीरुभ्रमणायोग्यत्वं व्यङ्ग्यम् । तत् तु गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वात् । यन्नैवं तन्नैवम्, यथा गृहम् इत्यनुमानेन सेत्स्यति, किं व्यञ्जनया । न च भीरुरपि गुरोः प्रभोः निर्देशेन प्रियानुरागेण वा भ्रमतीति व्यभिचार इति वाच्यम् । प्रभु निर्देशाद्यनुपाधिकत्वेन भ्रमणस्य विशेषणीयत्वेन व्यभिचाराभावात् । ने च प्रतारिकावाक्यत्वेन वाक्यात् सिंहवत्वं न निश्चितमिति वाच्यम् । प्रतारिकावाक्यादपि तत्त्वज्ञानदेशायां तन्निश्चयोत्पत्तेः ।अथ व्यज्यत इति प्रतीत्या व्यञ्जनासिद्धिः, इति चेत्, न तस्याः प्रतीतेरनुमीयत इति प्रतीत्या सहैकार्थत्वात् । अन्ये तु सोऽयमिषोरिव दीर्घदीर्घतरो व्यापार इति यत्परः शब्दः स शब्दार्थ इति न्यायाद् 'भम धम्मिअ' इत्यादौ भ्रमणायोग्यत्वं वाच्यमेव, न व्यङ्ग्यम् । न च यत्परः शब्द इत्यादेर्यदंशो विधेयः तत्रैव तात्पर्यमित्यर्थः । यथा दध्ना जुहोतीत्यत्र हवनस्यान्यतः सिद्धेर्दध्यादेः करणत्वे, न तु शब्दश्रवणानन्तरं प्रतीयमान एव तात्पर्यमित्यर्थः । तथा सति पूर्वी धावतीत्यत्र अपराद्यर्थेऽपि शब्दस्य प्रामाण्यं स्यादिति वाच्यम् । एवं विवक्षितेऽपि विधेयतया भ्रमणायोग्यत्वेऽपि तात्पर्यस्य वक्तुं शक्यत्वात् । न चैवं लक्षणोच्छेद इति वाच्यम् ; लक्ष्येऽर्थे परमतात्पर्याभावात् । अन्यत्रान्यशब्दप्रयोगस्तु तद्धर्मप्रात्यर्थ इति न्यायात् प्रतीयमाण (न) एव अर्थे परमतात्पर्यादित्याहुः । यदपि च नयनभङ्ग्यादेर्व्यञ्जकतेति तदपि न । तत्र चेष्टा विशेषस्यैव अनुमान विधया तत्तदर्थप्रत्यायकस्वात् । ननु न मया षट्पदार्थी भिन्ना व्यञ्जना नाम काचिद् वृत्तिरङ्गीक्रियते येन धर्म्यन्तरकल्प - नागौरवं स्यात् । किन्तु येन सम्बन्धेन पावनत्वादिकं उपस्थाप्यते तस्य व्यञ्जनये (? ने ) ति नामोच्यते बाधित[प० ७.१ ] बोधकत्वेन अभिघातस्तस्या वैलक्षण्यात् । न चाभिधादेरेव बाधितबोधकत्वमिति वाच्यम् ; तस्याः क्वाप्येवमकल्पनात् तन्न; अभिधादेरेव बाधितबोधकत्वं कल्प्यम् । धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् । नामान्तरकरणस्य वस्त्वन्तरासाधकत्वात् । ननु अनेनेदं नोक्तम्, किन्तु व्यञ्जितमिति प्रतीत्योर्वैलक्षण्यात्, अभिघातो व्यञ्जना पृथक्, यथा अनुमिनोमि न साक्षात् करोमि इत्यनुभवबलात् प्रत्यक्षादनुमानं पृथक्; इति चेन्न । तत्र १ हेतुरेव निश्चितो नास्तीति कथमनुमानं करिष्यतीत्याशङ्कते । २ अनया सत्यमेवोच्यते इति ज्ञानदशायाम् । ३ यावानर्थो यस्माच्छब्दात् प्राप्यते तावानर्थस्तेन वाध्यः । ४ अनन्यलभ्यः । ५ प्रकरणादेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148