________________
१०
काव्यप्रकाशखण्डन
भम धम्म वीसत्थो सो सुनओ अअ मारिओ देन । गोडा प० ६.२ ]इकच्छ कुडंगवासिणा दरिअसिँहेन ॥
इत्यत्र गृहे भयहेतुश्वनिवृत्तिजन्यभ्रमण विधानेन गोदावरीतीरस्य सिंहवत्त्वेन मीरुभ्रमणायोग्यत्वं व्यङ्ग्यम् । तत् तु गोदावरीतीरं भीरुभ्रमणायोग्यं सिंहवत्त्वात् । यन्नैवं तन्नैवम्, यथा गृहम् इत्यनुमानेन सेत्स्यति, किं व्यञ्जनया । न च भीरुरपि गुरोः प्रभोः निर्देशेन प्रियानुरागेण वा भ्रमतीति व्यभिचार इति वाच्यम् । प्रभु निर्देशाद्यनुपाधिकत्वेन भ्रमणस्य विशेषणीयत्वेन व्यभिचाराभावात् । ने च प्रतारिकावाक्यत्वेन वाक्यात् सिंहवत्वं न निश्चितमिति वाच्यम् । प्रतारिकावाक्यादपि तत्त्वज्ञानदेशायां तन्निश्चयोत्पत्तेः ।अथ व्यज्यत इति प्रतीत्या व्यञ्जनासिद्धिः, इति चेत्, न तस्याः प्रतीतेरनुमीयत इति प्रतीत्या सहैकार्थत्वात् ।
अन्ये तु सोऽयमिषोरिव दीर्घदीर्घतरो व्यापार इति यत्परः शब्दः स शब्दार्थ इति न्यायाद् 'भम धम्मिअ' इत्यादौ भ्रमणायोग्यत्वं वाच्यमेव, न व्यङ्ग्यम् । न च यत्परः शब्द इत्यादेर्यदंशो विधेयः तत्रैव तात्पर्यमित्यर्थः । यथा दध्ना जुहोतीत्यत्र हवनस्यान्यतः सिद्धेर्दध्यादेः करणत्वे, न तु शब्दश्रवणानन्तरं प्रतीयमान एव तात्पर्यमित्यर्थः । तथा सति पूर्वी धावतीत्यत्र अपराद्यर्थेऽपि शब्दस्य प्रामाण्यं स्यादिति वाच्यम् । एवं विवक्षितेऽपि विधेयतया भ्रमणायोग्यत्वेऽपि तात्पर्यस्य वक्तुं शक्यत्वात् । न चैवं लक्षणोच्छेद इति वाच्यम् ; लक्ष्येऽर्थे परमतात्पर्याभावात् । अन्यत्रान्यशब्दप्रयोगस्तु तद्धर्मप्रात्यर्थ इति न्यायात् प्रतीयमाण (न) एव अर्थे परमतात्पर्यादित्याहुः ।
यदपि च नयनभङ्ग्यादेर्व्यञ्जकतेति तदपि न । तत्र चेष्टा विशेषस्यैव अनुमान विधया तत्तदर्थप्रत्यायकस्वात् ।
ननु न मया षट्पदार्थी भिन्ना व्यञ्जना नाम काचिद् वृत्तिरङ्गीक्रियते येन धर्म्यन्तरकल्प - नागौरवं स्यात् । किन्तु येन सम्बन्धेन पावनत्वादिकं उपस्थाप्यते तस्य व्यञ्जनये (? ने ) ति नामोच्यते बाधित[प० ७.१ ] बोधकत्वेन अभिघातस्तस्या वैलक्षण्यात् । न चाभिधादेरेव बाधितबोधकत्वमिति वाच्यम् ; तस्याः क्वाप्येवमकल्पनात् तन्न; अभिधादेरेव बाधितबोधकत्वं कल्प्यम् । धर्मिकल्पनातो धर्मकल्पना लघीयसीति न्यायात् । नामान्तरकरणस्य वस्त्वन्तरासाधकत्वात् ।
ननु अनेनेदं नोक्तम्, किन्तु व्यञ्जितमिति प्रतीत्योर्वैलक्षण्यात्, अभिघातो व्यञ्जना पृथक्, यथा अनुमिनोमि न साक्षात् करोमि इत्यनुभवबलात् प्रत्यक्षादनुमानं पृथक्; इति चेन्न । तत्र
१ हेतुरेव निश्चितो नास्तीति कथमनुमानं करिष्यतीत्याशङ्कते । २ अनया सत्यमेवोच्यते इति ज्ञानदशायाम् । ३ यावानर्थो यस्माच्छब्दात् प्राप्यते तावानर्थस्तेन वाध्यः । ४ अनन्यलभ्यः । ५ प्रकरणादेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org