________________
द्वितीय उल्लास' शिष्टतीरे लक्षणया विशिष्टार्थप्रतीतिर्भविष्यति । तदर्थं किं व्यञ्जनाकल्पनेन । न च शक्यस्य विशिष्टेन सह एकसम्बन्धाभावात् कथं विशिष्ट लक्षणेति वाच्यम् । यत्किश्चिदेकसम्बन्धस्य ज्ञानविषयत्वादेवक्तुं शक्यत्वात् । अस्मिन् पक्षे रूढिरिव प्रयोजनं विना लक्षणेत्यवधेयम् । अभिधामूलध्वनौ तु नानार्थि]स्थले -
भद्रात्मनो दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य ।
यस्सा ५० ६.१ ]नुपप्लवगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ यस्य करः शयः शुण्डा वा, सततं दानं वितरणं मदो वा, तस्याम्बुनः सेकेन सुन्दरोऽभूत् । कीदृशस्य भद्रः श्रेष्ठः आत्मा यस्य, भद्रजातीयस्येति वा ।
"भद्रो रुदे वृषे रामवरे मेरुकदम्बके ।
हस्तिजात्यन्तरे भद्रो वाच्यवच्छ्रेष्ठसाधुनः ॥" - इति विश्वः। दुरपिरोहतनोः दुर्लभदर्शनस्य दुरारोहस्य वा, विशाले वंशे अन्ववाये पृष्ठोपरिभाने वा, उमतिर्यस्य स तस्य ।
___"वंशो वेणौ कुले वर्ग पृष्ठस्यावयवेऽपि च ।" - इति विश्वः । तथा, कृतः शिलीमुखानां बाणानां भृङ्गाणां वा सङ्ग्रहो येन स तस्य ।
"शिलीमुखोऽलि-बाणयोः।" - इति विश्वः। अनुपप्लवगतेः निरुपद्रक्वेष्टितस्य स्थिरगमनस्य वा ।
____ "उपप्लवः सैहिकेये विप्लवोत्पातयोरपि ।" - इति विश्वः । परवारणस्य परेषां नियन्तुः, उत्कृष्टहस्तिनो वा इत्यक्षरार्थः । इत्यादौ स्थले राज-गजोभयार्थ एव फलबलात् तात्पर्यग्रहादुभयप्रतीतिर्भविष्यति किं व्यञ्जनया। नानार्थादन्यत्र तु मुख्यार्थबाघे तत्वदर्थेषु रसादिषु तात्पर्यानुपपत्त्या पूर्ववत् लक्षणैव । यत् तु तत्तद् वर्णानां ततद् रसव्यञ्जकतया व्यञ्जनाऽवश्यमाश्रयणीयेति तदतीवतुच्छम् , अनभ्युपगमपराहतत्वात् । वस्तु. तस्तु नाट्यादिदर्शनजन्यसुखविशेषस्यैव रसत्वस्य वक्ष्यमाणत्वेन तस्य व्यायवाभावात् , अपि तु साक्षात्कारविषयत्वात् ।
अथ 'रुचिं कुर्वि'त्यादावसभ्यार्थोपस्थापकत्वेन व्यञ्जना खीकर्तव्या इति चेन्न । अपभ्रंशा. न्तरवत तस्यापि तदर्थोपस्थापकत्वात् । अथ
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थवया कपालिनः। इत्यत्र पिनाक्यादिपदवैलक्षण्येन कपाल्यादिपदानां व्यञ्जनां विना शिवनिन्दाबोधकत्वाभावात् कथं काव्यानुगुणत्वम् ? इति चेत्, मैवम् ; तत्र योगबलात् कपालिपदस्य कपालित्वरूपशिवप्रत्यायकत्वेन काव्यानुगुणत्वात् । वस्तुतस्तु अनुमानेन व्यञ्जनाऽन्यथासिद्धा । तथा हि -
पथा गगरीपदस्य.पटे शकिर्नास्ति तथापि शक्तिभ्रमेण तत्पवात् तदुपस्थितिर्जायते । तथैवात्रापि शक्तिभ्रमात् तदुपस्थितिर्भविष्यतीत्याशयः ।
का० प्र०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org