Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
द्वितीय उल्लास मतरतेरन्यथोपपादयितुमशक्यत्वात् । अत्र तु अनुमानेन लक्षणया वा उपपादयितुं शक्यस्वात् न व्यजना पृथक् । ' ___ मनु एवं अनुमानेन व्यञ्जनान्यथासिद्धौ शब्दप्रामाण्यमपि भज्येत । घटमानयेत्यत्र कर्मत्वं घटवत् । घटनिरूपिताकांक्षायोग्यतादिमत्पदस्मारितत्वात् । इत्यनुमानेन शाब्दबोधसमशीलज्ञानजननसंभवात् , इति चेत् , न । योग्यतायाः लिङ्गविशेषणत्वासंभवात् , तस्याः संशयसाधारणज्ञानस्य कारणत्वात्, हेतुनिश्चयकारणत्वस्य सर्वसम्मतत्वात् , शब्दस्थले व्यास्यादिप्रतिसन्धानं विनाऽपि अत्यन्तासत्यप्यर्थे बाधावतारेऽपि अन्वयबोधदर्शनात् । नानुमानेन शब्दप्रामाण्यस्यान्यथासिद्धिः ।
सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते । (मू० का० ७, पू०) .. इति प्राचां मतानुसारेण वाच्य-लक्ष्य-व्यङ्ग्यानां व्यञ्जकतामाह । तत्र वाच्यस्य
यथा
माए घरोवअरणं अज हु णत्थि त्ति साहिअं तुमए । ता भण किं करणिजं एमेअ ण वासरो ठाइ ॥ [मातर्गहोपकरणं अद्य खलु नास्तीति साधितं त्वया ।
तद् भण किं करणीयं एवमेव न वासर [:] स्थास्यति ॥] मातरित्याज्ञाकरणोपयोगित्वम् , गृहोपकरणमित्यनेनावश्यकर्त्तव्यत्वम् , अद्येत्यादिना अतिप्रसङ्गनिवारणम् , त्वया कथितं न तु मयेत्यनेन अन्यथाशङ्कानिवृत्तिः, तत् शब्देन हेत्वर्थेन अवश्यवक्तव्यम् । एवमेव व्यासङ्गं विना, वासरो न तिष्ठति । अतीते [प० ७.२] वासरे तवाज्ञयाऽपि न किञ्चित् करिष्यामीति व्यज्यत इति व्यञ्जकता पदार्थानाम् ।
वाक्यार्थव्यञ्जकतामाह । अत्र वक्तृवैशिष्टयात् खैरविहारिणीति व्यज्यते । • लक्ष्यस्य यथा
साहेती सहि सुहअं खणे खणे दूमिआसि मज्झ कए । सब्भावणेहकरणिजसरिस दाव विरइअं तुमए ॥ [साधयन्ती सखि ! सुभगं क्षणे क्षणे दूनासि मस्कृते ।
सजावस्नेहकरणीयसदृशं तावद् विरचितं त्वया ॥] त्वयेति ज्ञातापकारिणी प्रति एवंविधोक्तिरसम्भावितेति । बाधानन्तरं सद्भावेत्यादिना ' तदभावव्याप्यत्वेन विरोधी लक्ष्यते । तदाह - मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति
लक्ष्यम् । तेनं कामुकविषयसापराधत्वप्रकाशनं व्यङ्ग्यम् । केचित् तु सद्भाव-खेहाभ्यां तदभावो लक्ष्यते । तेन च तदतिशयः शत्रुत्वं व्यज्यते । लक्ष्यमित्यस्य लक्षणामूलव्यङ्ग्यत्वमर्थः । पार्यन्तिकव्यङ्ग्यं तु कामुकविषर्यकसापराधत्वप्रकाशनमित्यर्थः । अत्र वाक्यार्थव्यञ्जकत्वेऽपि लक्ष्यस्य व्यञ्जकत्वम् । भट्टमते तस्यापि लक्ष्यत्वात् । यद्वा अन्वयस्य व्यञ्जकत्वेऽपि अन्वयिनो व्यञ्जकत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148