Book Title: Kartikeyanupreksha
Author(s): Kumar Swami
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 460
________________ भगवली ३४६ स्वामिकार्त्तिकेयानुमेक्षा [ गा० ४५७ विमथः। १। शाने जिनोक्त सिद्धान्ते द्वादशाचतुर्दशपुर्वाणां कालशुद्ध्या पठनं व्याख्यानं परिवर्तनम् । हस्तपादौ प्रात्य पर्यायास्थितस्याध्ययनम् । अवग्रहविशेषेण पठनम् । बहुमानं यत्पठति यस्मात् शृणोति तयोः पूजा गुणरूसवनम् । अनिहवः यत्पठति यस्मात्पाठयति तयोः कीर्तनम्। व्यअशुद्धम् अर्थशुद्धं व्यञ्जनार्थशुद्धम् इति । ज्ञाने अष्टप्रकारो विनयः । यः शिक्षसे विद्योपादानं करोति, ज्ञानाभ्यासे करोति ज्ञानं परस्मै उपदिशति । य एवं करोति स शानविनीतो भवति इति ज्ञाने विनयः ॥ २ ॥ तथा तेनैव प्रकारेण चारित्रे व्रतसमितिपुतिलक्षणे त्रयोदशप्रकारे सामायिका दिपञ्चप्रकारे वा तदाचरणं तरणोपायेन यत्नः चारित्रे विनयः । तथा इन्द्रियकषायाणां प्रसरनिवारणम् इन्द्रियकषायथ्यापर निरोधनम् इति चारित्रविनयः । ३ । व पुनः द्वादशभेदे तपसि अनशनात्र मर्यादिद्वादशप्रकारे तपसि अनुष्ठानम् उत्साहः उद्योगः । तथा आतापनाद्युतरगुणेषु उद्यमः उत्साहः। समतास्ववचन्दना प्रतिक्रमण प्रत्याख्यान कार्गाणाम् काना यस्यावश्यकस्य यावन्तः पठिता: कायोत्सर्गाः तावन्त एव कर्तव्याः न तेषा हानिर्वृद्धिर्वा कार्या । द्वादशविधतपोऽनुष्टाने भक्तिरनुरागः तपस्विन भक्तिः इति तपसि विनयः । ४ । उपचारो विनयः, उपचर्यते उपचारेण क्रियते साक्षादिति उपचारो विनयः 1 बहुधा बहुप्रकारः । कायिकचिनयः साधूनां दूरदर्शनात् आसनाद उत्थानम् सिद्धश्रुतमुरुभक्तिपूर्वकं कायोत्सर्गादिकरणम्, नमनं शिरसा ग्रामः, अञ्जलिपुटेन नमनम्, सन्मुखगमनम् पृष्टिगमनम् देवगुरुभ्यः पुरतः नीचे स्थानम् वामपार्श्वे स्थानम्, गुरोर्वामपार्श्वे पृष्ठतो वा गमनम् इत्यादिकौपचारिककायविनयः । दाविनयः । तथथा । पृज्यवचनं बहुवचनोच्चारणं यूर्य भट्टारकाः पूज्याः इत्येवमादिकम् । हितस्य पयस्य भाषणम् इहलोक परलोकधर्मकारणं वचनम् । मितस्य परिमितस्य भाषणं वाल्पाक्षरवम् । मधुरं मनोहरवचनं श्रुतिसुखदम् । सूत्रानुजीविवचनम् आगमष्ट्या भाषणं यथा पापं न भवति । निशककादिकं वर्जविला भाषणम् । क्रोधमानमायालोभरागद्वेषादिविरहितं वचनम् । चकारम कारादिरहितं वचनम् । बन्धनानानादिरहितं वचनम् । असिमासि कृष्या दिक्रियारहितं चन्चनम्। परमुखविधायक वचनं धर्मोपदेशनम् । इत्यादिवाचिकविनयः यथायोग्य कर्तव्यो भवति । मानसिक विनयः । यथा हिंसादिपापकारि परिणामस्य परित्यागः । आर्तरौद्रपरिणामस्य परित्यागः । सम्यक्त्वविराधनापरिणामरहितः । मिथ्यात्वपरिणामपरित्यागः । धर्मे सभ्यत्वे ज्ञाने चारित्रे तद्वत्सु च शुभपरिणामः कर्तव्यः । कायादिको निनयः प्रत्यक्षः, दीक्षागुरौ श्रुतगुरी तपोऽधिके साधुषु सूरिपाठकेषु आर्थिका गृहस्थभावकलोकेषु च यद्विद्यमानेषु यथायोग्यं विनयः कर्तव्यः । एतेषु परोक्षभूतेषु गुर्बादिषु काषादिको विनयः कर्तव्यः । गुरूणामाज्ञादेशतदुपदेशवचन प्रतिपालन तदुपदिष्टंषु जीवादिपदार्थेषु श्रद्धानं कर्तव्यं परोक्षविनयः । विनयस्य फलम् विनये सति ज्ञानलाभो भवति, आचारविशुद्विश्व संजायते । विनयहीनस्य शिक्षा श्रुताध्ययनं सर्व निष्फलम् । विनयवान् सर्वकल्याणानि म्वर्गमोक्षसुखानि लभते । अन्मादिकमकल्याणकं चतुर्विधाराधनादिकं च लभते । तदुक्तं च 'बिणओ मोक्खहारे विणयाशे संजमों तथो णाणं । विगएणाराहिंज्जदि आयरिश्र सव्वसंघोय ॥] बिनयो मोक्षस्य द्वारे प्रवेशयः, विनयात संयमः, विनयात् तपः, विनयात् ज्ञानं विनवेन आराध्यते आचार्यः सर्वसंध श्रपि । तथा च ॥" किती मेती मानस मंजर्ण गुरुजणे य बहुमाणं । तिव्ययराणं आणा गुप्पाणुमोदो य विषयगुणा विनयस्य कीर्ति यशः सर्वव्यापि प्रतापं लभते, तथा मैत्री सत्रः सह मित्रभावं लभते तथात्मनो मार्न गर्व निरस्यति, गुरुजनेभ्यो बहुमानं लभने, तीर्थकराणामाज्ञां पालयति, गुणानुरागं च करोति । इत्यादिविनवत्तपोविधानगुणाः ॥ ४५६ ॥ दंसण-गाग-चरिते सुविसुद्धो जो हवेइ परिणामो । बारस-भेदे' वितत्रे' सो विय' विणओ हवे तेसिं ॥ ४५७ ॥ . 131 भावार्थ - काय और इन्द्रियों को अपने वशमें करना विनय है । अथवा रत्नत्रय और रत्नत्रयके धारी मुनियों विषयमें विनम्र रहना विनय है। उसके पांच भेद हैं ॥ ४५६ ॥ अर्थ-दर्शन, ज्ञान और चारित्र के विषयमें तथा बारह प्रकारके तपके विषय में जो विशुद्ध परिणाम होता है वही उनकी विनय है || भावार्थ तस्वार्थ के श्रद्धानरूप सम्यग्दर्शन के विषय में शंका, कांक्षा, विचिकित्सा आदि दोषोंको छोड़ना और उपगूहन, स्थितिकरण, वात्सल्य, प्रभावना आदि गुणका होना १ ब भेउ, म भेष्ट । २ ब तबो (१) १ ३ ख चिथ ।

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589