________________
भगवली
३४६
स्वामिकार्त्तिकेयानुमेक्षा
[ गा० ४५७
विमथः। १। शाने जिनोक्त सिद्धान्ते द्वादशाचतुर्दशपुर्वाणां कालशुद्ध्या पठनं व्याख्यानं परिवर्तनम् । हस्तपादौ प्रात्य पर्यायास्थितस्याध्ययनम् । अवग्रहविशेषेण पठनम् । बहुमानं यत्पठति यस्मात् शृणोति तयोः पूजा गुणरूसवनम् । अनिहवः यत्पठति यस्मात्पाठयति तयोः कीर्तनम्। व्यअशुद्धम् अर्थशुद्धं व्यञ्जनार्थशुद्धम् इति । ज्ञाने अष्टप्रकारो विनयः । यः शिक्षसे विद्योपादानं करोति, ज्ञानाभ्यासे करोति ज्ञानं परस्मै उपदिशति । य एवं करोति स शानविनीतो भवति इति ज्ञाने विनयः ॥ २ ॥ तथा तेनैव प्रकारेण चारित्रे व्रतसमितिपुतिलक्षणे त्रयोदशप्रकारे सामायिका दिपञ्चप्रकारे वा तदाचरणं तरणोपायेन यत्नः चारित्रे विनयः । तथा इन्द्रियकषायाणां प्रसरनिवारणम् इन्द्रियकषायथ्यापर निरोधनम् इति चारित्रविनयः । ३ । व पुनः द्वादशभेदे तपसि अनशनात्र मर्यादिद्वादशप्रकारे तपसि अनुष्ठानम् उत्साहः उद्योगः । तथा आतापनाद्युतरगुणेषु उद्यमः उत्साहः। समतास्ववचन्दना प्रतिक्रमण प्रत्याख्यान कार्गाणाम् काना यस्यावश्यकस्य यावन्तः पठिता: कायोत्सर्गाः तावन्त एव कर्तव्याः न तेषा हानिर्वृद्धिर्वा कार्या । द्वादशविधतपोऽनुष्टाने भक्तिरनुरागः तपस्विन भक्तिः इति तपसि विनयः । ४ । उपचारो विनयः, उपचर्यते उपचारेण क्रियते साक्षादिति उपचारो विनयः 1 बहुधा बहुप्रकारः । कायिकचिनयः साधूनां दूरदर्शनात् आसनाद उत्थानम् सिद्धश्रुतमुरुभक्तिपूर्वकं कायोत्सर्गादिकरणम्, नमनं शिरसा ग्रामः, अञ्जलिपुटेन नमनम्, सन्मुखगमनम् पृष्टिगमनम् देवगुरुभ्यः पुरतः नीचे स्थानम् वामपार्श्वे स्थानम्, गुरोर्वामपार्श्वे पृष्ठतो वा गमनम् इत्यादिकौपचारिककायविनयः । दाविनयः । तथथा । पृज्यवचनं बहुवचनोच्चारणं यूर्य भट्टारकाः पूज्याः इत्येवमादिकम् । हितस्य पयस्य भाषणम् इहलोक परलोकधर्मकारणं वचनम् । मितस्य परिमितस्य भाषणं वाल्पाक्षरवम् । मधुरं मनोहरवचनं श्रुतिसुखदम् । सूत्रानुजीविवचनम् आगमष्ट्या भाषणं यथा पापं न भवति । निशककादिकं वर्जविला भाषणम् । क्रोधमानमायालोभरागद्वेषादिविरहितं वचनम् । चकारम कारादिरहितं वचनम् । बन्धनानानादिरहितं वचनम् । असिमासि कृष्या दिक्रियारहितं चन्चनम्। परमुखविधायक वचनं धर्मोपदेशनम् । इत्यादिवाचिकविनयः यथायोग्य कर्तव्यो भवति । मानसिक विनयः । यथा हिंसादिपापकारि परिणामस्य परित्यागः । आर्तरौद्रपरिणामस्य परित्यागः । सम्यक्त्वविराधनापरिणामरहितः । मिथ्यात्वपरिणामपरित्यागः । धर्मे सभ्यत्वे ज्ञाने चारित्रे तद्वत्सु च शुभपरिणामः कर्तव्यः । कायादिको निनयः प्रत्यक्षः, दीक्षागुरौ श्रुतगुरी तपोऽधिके साधुषु सूरिपाठकेषु आर्थिका गृहस्थभावकलोकेषु च यद्विद्यमानेषु यथायोग्यं विनयः कर्तव्यः । एतेषु परोक्षभूतेषु गुर्बादिषु काषादिको विनयः कर्तव्यः । गुरूणामाज्ञादेशतदुपदेशवचन प्रतिपालन तदुपदिष्टंषु जीवादिपदार्थेषु श्रद्धानं कर्तव्यं परोक्षविनयः । विनयस्य फलम् विनये सति ज्ञानलाभो भवति, आचारविशुद्विश्व संजायते । विनयहीनस्य शिक्षा श्रुताध्ययनं सर्व निष्फलम् । विनयवान् सर्वकल्याणानि म्वर्गमोक्षसुखानि लभते । अन्मादिकमकल्याणकं चतुर्विधाराधनादिकं च लभते । तदुक्तं च 'बिणओ मोक्खहारे विणयाशे संजमों तथो णाणं । विगएणाराहिंज्जदि आयरिश्र सव्वसंघोय ॥] बिनयो मोक्षस्य द्वारे प्रवेशयः, विनयात संयमः, विनयात् तपः, विनयात् ज्ञानं विनवेन आराध्यते आचार्यः सर्वसंध श्रपि । तथा च ॥" किती मेती मानस मंजर्ण गुरुजणे य बहुमाणं । तिव्ययराणं आणा गुप्पाणुमोदो य विषयगुणा विनयस्य कीर्ति यशः सर्वव्यापि प्रतापं लभते, तथा मैत्री सत्रः सह मित्रभावं लभते तथात्मनो मार्न गर्व निरस्यति, गुरुजनेभ्यो बहुमानं लभने, तीर्थकराणामाज्ञां पालयति, गुणानुरागं च करोति । इत्यादिविनवत्तपोविधानगुणाः ॥ ४५६ ॥ दंसण-गाग-चरिते सुविसुद्धो जो हवेइ परिणामो ।
बारस-भेदे' वितत्रे' सो विय' विणओ हवे तेसिं ॥ ४५७ ॥
. 131
भावार्थ - काय और इन्द्रियों को अपने वशमें करना विनय है । अथवा रत्नत्रय और रत्नत्रयके धारी मुनियों विषयमें विनम्र रहना विनय है। उसके पांच भेद हैं ॥ ४५६ ॥ अर्थ-दर्शन, ज्ञान और चारित्र के विषयमें तथा बारह प्रकारके तपके विषय में जो विशुद्ध परिणाम होता है वही उनकी विनय है || भावार्थ तस्वार्थ के श्रद्धानरूप सम्यग्दर्शन के विषय में शंका, कांक्षा, विचिकित्सा आदि दोषोंको छोड़ना और उपगूहन, स्थितिकरण, वात्सल्य, प्रभावना आदि गुणका होना
१ ब भेउ, म भेष्ट । २ ब तबो (१) १ ३ ख चिथ ।