Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 291
________________ (२४६) श्रीकल्पसूचार्यप्रबोधिनी. व्रीडां किं नैषि ? यदस्याने युद्धं कामयसे ?, याहि याहि, अकाले मा म्रियस्व । इत्थमकाण्डब्रह्माण्डक्षयकरं समरमतिघोरतरं तावुभौ भ्रातरौ चक्राते द्वादशाद्वीम् । कोटिप्राया भटा दलद्वये मः, रक्तनद्योऽवहँश्च, परं जयपराजयौ कस्यापि नाऽभूताम् । इत्थं महाऽनर्थ जायमानमालोक्य सौधर्मेन्द्रचमरेन्द्रौ समेत्य भरतमचाते-भोः! मगवान् सकलाँलोकानमण्डत । युवामकाल एव तान् कथं संहरेथाः । । भरतोऽवदत्-किं कुर्याम् ? बाहुबली ममाज्ञां नो मन्यते, अतो मे चक्रमायुधालये नाऽऽयाति, अत्र मम को दोषः । तौ पुनरूचाते-युवां भ्रातरौ स्थः युयुत्सां दधाथे चेदुभावेव युध्येथाम् , लोकानां घयं मा कृषाथाम् । भरतोप्येतत्स्वीचकार । ततस्ताविन्द्रौ बाहुबलिनमागत्य सर्वमवदताम् ! भरत इव बाहुबन्यापि तदुक्तिं मेने । ततस्तौ तयोरेकं दृष्टियुद्धम् , द्वितीयं वागयुद्धं. तृतीयं बाहुयुद्धं, तुर्य मुष्टियुद्धम् , पञ्चमं दण्डयुद्धमिति निरचिनुताम् । ततो विस्तृतभूभागमुत्खन्य वारिमिरभिषिच्य कुसुमानि विकीर्य सुसजिते मृदुतरे भूमौ भरतवाहुबलिनौ परस्परजयैषिणौ कवचं विभ्राणौ युयुत्सया मिमिलतुः। देवादयो व्योम्नि साक्षित्वेन तस्थुः, इतरेऽपि दर्शकाः पङ्क्तिशोऽतिष्ठन् । तत उभौ तौ प्रथमं दृष्टियुद्धं चिकीर्षन्तौ त्राटकमुद्रया परस्परमभिमुखं पश्यन्तौ तस्थतुः । परमतिशौण्डीरवतो भरतस्य विलोकमानस्य दशौ जलार्द्रत्वानिमिमिलतु:, बाहुबली तु पश्यमेव तस्थिवान् । ततो गगनस्थिता लेखाः पुष्पाणि वर्षन्तश्चचक्षिरे-भरतः पराजितः, बाहुबली जितवान् । ततो भरते सिंहनाद वितन्वाने गिरयश्चकम्पिरे, बाहुबलिनि गर्जति सति ब्रह्माण्डोदरं सकलं पुस्फोट, तं शब्दमसहमानो भरतः स्वश्रवसी प्यधत्त । तत्पश्यन्तो देवा भरतं पराजितवान् बाहुबलीति जगदुः । बाहुयुद्धे प्रवृत्ते प्रथमं भरतः स्वभुजमलम्बयत कमलनालमिव लीलयैव बाहुबली तं नमयामास, ततस्तेन प्रसारितं बाहुं नमयितुं चिरं कृतप्रयत्नोऽपि भरतो मनागपि नाऽनीनमत् , किन्तु स्वयमेव चिरं लम्बमानो झुलितवान् । अत्रापि सर्वे बाहुबलिन एव जयश्रियमपश्यन् । ततस्तौ मल्लाविव भुजंस्फालयन्तौ मिमिलतुस्तदा सर्वेषु पश्यत्सु भरतः प्रथम बाहुबलिनं मुष्टिना जघान, तदाघातेन क्षणं सञ्जातनयननिमीलनोऽभूत् । बाहुबली भरतं मुष्टिनाऽताडयत्, तत्प्रहारवेदनामसहमानो भरतो रुधिरं वमन् धरान्तः प्राविशत् । अत्रापि भरतः पराजित इति सर्वेऽजन्पन् । ततो दण्डयुदमुभौ प्रावत्यताम् । तत्र प्रथमं भरतो गदया तं प्राहरत, तेन मृद्घट इव तन्मुकुटं सञ्चूर्णितमाजानुचरणः सोऽधस्तादगमञ्च । बाहुबलिना गदया प्रवृतो भरतस्तु सञ्चूर्णमुकुटः सर्वावयवेन धरातलं प्रविवेश । अत्रापि भरतेन हारितं बाहुबलिना जितम्, इत्युच्चैजेगुः सर्वे ५ । इत्थं जातेष्वपि पञ्चसु युद्धेषु हारितो महतीं चिन्तामधिगच्छन्मनसि व्यमृशत्-यदसौ सुराऽसुरैरजय्योऽपहरिष्यति मे राज्यम् । अतोऽधुनैव समूलमुच्छेदनीय इति, अवधार्य तद्विघाताय चक्रमजहाद परन्तु गोत्रे तत्रैव प्रभवतीति हेतोस्तं प्रदक्षिणीकृत्य पुनर्भरतस्य पाणौ समायातम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408