Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 338
________________ नवमं व्याख्यानम् । ( २६१) भोक्ष्यते वा, सोऽपि तेन सत्रैव मरिष्यति । आर्यरक्षितोऽपि तदुररीकृत्य तस्मिन् स्वर्याते वज्रस्वामिनः समीपमागन्तुमचलत् । रात्रौ स्वप्ने स एवमपश्यत्-कश्चिदतिथिमुनिरागत्य मत्पात्रस्थं क्षीरं सर्वमपिबत्, किञ्चिदेवाऽवशिष्टं तस्थौ । इति नैशिकं स्वप्नं प्रभाते साधून् यावत्कथयति, तावदार्यरक्षितस्तत्रागत्य वन्दित्वा, स्वागमनकारणं भद्रगुप्तसूरिगदितवृत्तान्तञ्च व्याहृत्य, पृथगुपाश्रयस्थ एव सुखेन तत्पार्श्वे पूर्वानध्येतुं लग्नः । अल्पीयसा कालेनैव नवपूर्वानधीत्य दशमे पूर्व चतुर्विशति यमकानि सोऽध्यगीष्ट । तावत्तमाह्वातुं मातापितृभ्यां प्रेषितः कनी. यान फल्गुरक्षितनामा बन्धुस्तत्रागत्यैवमचकथत--बन्धो ! चिरात्त्वामपश्यन्तौ मातापितरौ चेखिद्यते, अत एकवारं तत्र चरु, मातापितरौ सुखय । सोऽवक्-असारहेतोः सारवस्तुत्यागो मौर्यमस्ति, सांसारिको मातापित्रादिसम्बन्धोऽसन्नेवास्ति, तेषु ममताप्यलकिवास्ति, तत्र गत्वा किं करिष्यामि ? । फल्गुरक्षितोऽवादीत्-मुटुम्बानां धर्ममुपदेक्ष्यसि, तं श्रुत्वा बहवो जना मिथ्यात्वं विहाय शुद्धं धर्म ग्रहीष्यन्ति, दीक्षां च लास्यन्ति, आर्यरक्षित उवाच-अन्येषां लाभस्तावदास्ताम् , इहागतस्त्वमधुना दीक्षामादेहि । तदैव फल्गुरक्षितो दीक्षां लात्वा चलितुं तमाग्रहीत् । ततो वज्रखामिनं सोऽपृच्छत्-भगवन् ! दशमे कियानध्येतुमवशिष्यते १ । गुरुरूचिवान्--इदानीं त्वया सर्षपप्रायोऽपाठि, मेरुतुल्यश्चाऽवशिष्यते । तदनु गुरुणा प्रोत्साहितः स पुनरध्येतुमारभे, परन्तु फल्गुरक्षितस्य पुनः पुनः प्रेरणया पुनः स गुरुमवादीत्-प्रभो ! ममेदानी ज्ञातीनां दिक्षा महती जायते, अतस्तत्र गन्तुमनुज्ञायताम् , तान्मिलित्वा पुनरागत्य शेषं पठिष्यामीति । तदाकर्ण्य वज्रस्वामी श्रु. तोपयोगत इत्यवेदीत-यदतः परं दशमपूर्वाऽवशिष्टो भागो मया सार्धमेव यास्यति, अतस्तत्र गन्तुं शुभाशीपूर्वकं तमनुज्ञातवान् । तावुभावपि ततश्चलित्वा पाटलिपुत्रनगरे स्वगुरोस्तोसलीपुत्राचार्यस्य पार्श्वमागमताम् । सोऽपि तस्मा आचार्यपदं वितीर्य स्वरगात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408