Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 341
________________ ( २९६ ) श्रीकल्पसूत्रार्थप्रबोधिनी. भिक्षायामेव तस्य तावती लब्धि विलोक्य निरचिनोत्-इयन्तो मे शिष्या भविष्यन्तीति । ततो गुरुणा सोमदेवस्य भावनाऽधिक्येन सर्वे मोदकाः सर्वेभ्यो मुनिभ्योऽदायिषत । सोमदेवमुनिः पुनरानीय पारणामकरोत् : आर्यरक्षिताऽऽचार्यगच्छे घृतपुष्पमित्र-वस्त्रपुष्पमित्र-दुर्बलपुप्पमित्रनामानस्त्रयो मुनिवरा आहारलब्धिमन्तोऽजायन्त । दुर्बलपुष्पमित्र-विन्ध्य-फल्गुरक्षित-गोष्ठामाहिलाऽऽस्याश्चत्वारः श्रमणा वादलब्धिमन्तो जज्ञिरे । वज्रस्वामिपर्यन्तमेते धर्मकथानुयोग-चरणकरणानुयोग-गणितानुयोग-द्रव्यानुयोगाश्चत्वारः सहैव सम्मिलिता आसन् , किन्तु विन्ध्यमुनेः प्रार्थनयाऽऽर्यरक्षितसूरिश्चतुरोऽनुयोगान् पृथक् पृथगकरोत् । एवममुना श्रमणानामनेकपात्ररक्षण आज्ञाऽकारि,न्यवर्ति च साध्वीनामालोचनादातृत्वम् । अत एवैतच्छासनसमयादेव श्रामण्याः प्राच्यसंस्कृतेः शैथिल्यं नव्याचारपद्धतेरेधनञ्च भवितुमलगदिति कथनमनौचित्यं नोपैति । अयमेकदा मथुरानगयाँ क्वचिदेकत्र व्यन्तरायतने तस्थिवान् । तदवसरे महाविदेहक्षेत्रे श्रीसीमन्धरस्वामिपार्थेऽभिवन्दनाय शकेन्द्रः समुपेयिवान् । तदने भगवान् निगोदस्वरूपमवर्णयत । तदन्ते प्रसन्नः शकेन्द्रस्तमप्राक्षीत्-विभो ! भरतक्षेत्रे कश्चिदेतत्स्वरूपं वेत्ति, न वा ?। भगवानाचष्ट-अस्ति मथुरायामेतत्स्वरूपं विद्वान् यथावदहमिव वक्ताऽऽधरक्षितसूरिः । ततो विस्मितः शकस्तत्रागत्य वृद्धब्राह्मणरूपेणार्यरतितसूरि तत्स्वरूपं पप्रच्छ । सोऽपि सीमन्धरस्वामीव निगोदानां स्वरूपं यथावद्वर्णयाञ्चके । इन्द्रोऽपृच्छत्-ममाऽऽयुः कियदस्ति ?, सूरिस्तद्धस्ताऽवलोकनेन पक्षमासवर्षादिकं विमृश्य चचक्षे-न त्वं मनुष्यः, किन्तु प्रथमदेवलोकवासीन्द्रोऽसि, अस्ति चाऽऽयुस्तावकं द्विसागरोपमप्रमा. णम् । शकेन्द्र आचार्य भृशं प्रशस्य स्ववृत्तं निवेद्य, परावर्त्य चोपाश्रयद्वारं स्वस्थानमगच्छत् । बहिर्गताः श्रमणाः समेताः सन्तो द्वारं परा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408