Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 342
________________ नवमं व्याख्यानम् । ( २६७) वृत्तं विलोक्य तत्कारणं गुरुमप्रातुः । गुरुः शकाऽऽगमनादिसर्वमुचिवान् । साधुभिरुक्तम्-भगवन् ! किश्चित्कालं स स्थापितश्चेद्वयमपि तं द्रक्ष्यामः । गुरुरवदत्-महापुण्यवतामेव तदर्शनं भवितुमर्हति । ततो मुनिगणैः सत्राऽऽचार्योऽन्यत्र व्यहार्षीत्। अथ थुरायामेकदा कश्चिदेको विद्वज्जनजिगीषया विद्वानाययौ । स च सर्वत्र नगरे पटहं वादयन्नेवमुदघोषयत- यदत्र सुविद्वान् कश्चिदस्ति चेन्मयका सत्रा चर्चा विदधीत, अशक्तश्चेत्तर्हि मे विजयपत्रं ददीत ।' तदाकर्ण्य सङ्घ आवेदनपत्रं सम्प्रेष्य सर्वमेतत्तमसूचयत । तदाऽऽचार्यो गोष्ठामाहिलं मथुरायां तेन सार्धं विवदितुं प्रैषीत् । असौ तत्राऽऽगत्य राजपरिषदि समस्तश्रीसङ्घसमक्षं सुचिरं चर्चा कृत्वा प्रान्ते तं जिगाय, तदनु सङ्घाग्रहेण गो. ष्ठामाहिलस्तां चतुर्मासी तत्रैवाऽकरोत् । इतश्चाऽऽर्यरक्षितसूरिः स्वायुषः क्षयं विदित्वा योग्याऽयोग्यश्च विमृश्य, दुर्बलपुष्पमित्रमाचार्यपदे निधाय गच्छाधिपतिमकार्षीत् । स्वयमनशनं विधाय द्यामगात । स्वर्याते चामुऽष्मिन् गोष्ठौमाहिल ईयया दुर्बलपुष्पमित्राचार्याय द्वेष्टुं लग्नः, अतएव सङ्घो मिलित्वा तं गच्छाद्वाहिश्चक्रे । एवमार्यरक्षितसूरिीरशासने प्रावचनिकः प्राभाविकश्च बभूवान् । एषको हि प्रथमोदयस्यैकोनविंशतितमो युगप्रधान आसीत् । एतस्य सकलायुः पञ्चसप्ततिहायनमभूत । वाल्लभीयुगप्रधानपट्टावलीग्रन्थानुसारादेतस्य वीरनिर्वाणतः ५२२ (वि. क्रमीयसंवत् ५२ तमे वर्षे जन्म, वी० ५४४ (वि० ७४ )तमेऽब्दे दीक्षा. वी० ५८४ (वि० ११४ ) तमे वत्सरे युगप्रधानपदाप्तिः, वी० ५९७ (वि० १२७ ) तमे हायने स्वर्गमनमधिजज्ञे । १ एनं गुरुगच्छशासनद्वेष्तृत्वादुत्तराध्ययनसूत्रादिटीकाकर्तारः सप्तमं निह्नबं लिखन्ति स्म । सविस्तरमेतद्वृत्तमुत्तराध्ययनसूत्रविशेषावश्यकभाष्यादिवृत्तितोऽवगन्तव्यमिति। ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408