Book Title: Kalpasutrartha Prabodhini
Author(s): Rajendrasuri
Publisher: Rajendra Pravachan Karyalay Khudala

Previous | Next

Page 374
________________ नवमं व्याख्यानम् । ( ३२९) चितायां निपत्य भस्मसाद्बभूव । अमुना च 'मृतोऽपि त्वां न हन्यां तर्हि वणिकुपुत्रो न स्याम् ' इति पुरातनी शैशवी प्रतिज्ञा तस्याऽ. क्षरशः सत्या जाता। आसीच्चैष षण्डरकगच्छीयः, बभूवांश्च जैनशासनमहाप्रभावकः। एतस्य विक्रमसं० ९५७ वर्षे जनिः, सं० ९६६ वर्षे दीक्षा, सं० ९६८ वर्षे चाऽऽचार्यता जाता । प्रान्ते वलभद्रमुनेगच्छभारं दत्त्वा वसुदेवसूरिरित्याख्याश्च कृत्वा नारदपूर्यामेव स्वरगात् । १३४ जगद्गुरुश्रीहीरविजयसूरिनिबंधः प्रह्लादनपुरनगरे उपकेशवंशजस्य कुँराशाहश्रेष्ठिन: पत्नी नाथीनाम्नी तेजिष्ठं पुत्रं विक्रमीये १५८३ वर्षे सहसि शुक्लपक्षे नवम्यां तिथ्यां चन्द्रवासरे सन्मुहर्ते सुषुवे । 'हीरा ' इत्यभिधानेन स पप्रथे च । अयमल्पेनैव कालेन व्यावहारिकमशेषमभ्यस्य पित्रोरनुमत्या पाटणपुरे विक्रम १५९६ वत्सरे कार्त्तिककृष्णद्वितीयायां तपोगच्छीयविजयदा. नसूरिपार्श्वे दीक्षितो बभूव, गुरुणा तदभिधानं 'हीरहर्ष' इत्यधारि। असौ गुरोरेवाऽनवरतमधीयानः शब्दशास्त्रे पटीयान् भूत्वा, दक्षिणे देवगिरिपुरे गत्वा विद्वत्तमभ्यस्तर्कालङ्कार-साहित्य--सामुद्रिक-ज्यो. तिष-प्रमाणशास्त्राणि सम्यगधीत्य निरुपमं पाण्डित्यमाससाद । ततः शास्त्रनिष्णातममुं योग्यतममवगत्य गुरुरेतस्मै नारदपुरे पंन्यासपदम् , वरकाणातीर्थे चोपाध्यायपदं प्रदाय, सिरोहीनगरे चांगामन्त्रिविहितमहामहेनाऽऽचार्यपदं वि० १६१० वर्षे पौषशुक्लपञ्चम्यां दत्त्वा श्रीहीरविजयसूरिरित्यभिधानमकृत । गच्छाधिपतिरेष हीरविजयसूरिमरु-मालवमेदपाद-गुर्जर-पञ्चालप्रमुखदेशेऽप्रतिबद्धविहारेण निजोपदेशतः सहस्रशो जनाजेनरसिकानकरोत् । सिरोही-स्तम्भतीर्थ-सौरीपुर-फतेपुराऽऽगरा-विराटनगर–वटपल्लीत्यादिपुरेषु महतामहेन सङ्घसम्मेलनपुरस्सराऽनेकाऽऽहतप्रतिमानां प्रतिष्ठाअनशलाका अमुना Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408