________________
नवमं व्याख्यानम् ।
( ३२९) चितायां निपत्य भस्मसाद्बभूव । अमुना च 'मृतोऽपि त्वां न हन्यां तर्हि वणिकुपुत्रो न स्याम् ' इति पुरातनी शैशवी प्रतिज्ञा तस्याऽ. क्षरशः सत्या जाता। आसीच्चैष षण्डरकगच्छीयः, बभूवांश्च जैनशासनमहाप्रभावकः। एतस्य विक्रमसं० ९५७ वर्षे जनिः, सं० ९६६ वर्षे दीक्षा, सं० ९६८ वर्षे चाऽऽचार्यता जाता । प्रान्ते वलभद्रमुनेगच्छभारं दत्त्वा वसुदेवसूरिरित्याख्याश्च कृत्वा नारदपूर्यामेव स्वरगात् । १३४ जगद्गुरुश्रीहीरविजयसूरिनिबंधः
प्रह्लादनपुरनगरे उपकेशवंशजस्य कुँराशाहश्रेष्ठिन: पत्नी नाथीनाम्नी तेजिष्ठं पुत्रं विक्रमीये १५८३ वर्षे सहसि शुक्लपक्षे नवम्यां तिथ्यां चन्द्रवासरे सन्मुहर्ते सुषुवे । 'हीरा ' इत्यभिधानेन स पप्रथे च । अयमल्पेनैव कालेन व्यावहारिकमशेषमभ्यस्य पित्रोरनुमत्या पाटणपुरे विक्रम १५९६ वत्सरे कार्त्तिककृष्णद्वितीयायां तपोगच्छीयविजयदा. नसूरिपार्श्वे दीक्षितो बभूव, गुरुणा तदभिधानं 'हीरहर्ष' इत्यधारि। असौ गुरोरेवाऽनवरतमधीयानः शब्दशास्त्रे पटीयान् भूत्वा, दक्षिणे देवगिरिपुरे गत्वा विद्वत्तमभ्यस्तर्कालङ्कार-साहित्य--सामुद्रिक-ज्यो. तिष-प्रमाणशास्त्राणि सम्यगधीत्य निरुपमं पाण्डित्यमाससाद । ततः शास्त्रनिष्णातममुं योग्यतममवगत्य गुरुरेतस्मै नारदपुरे पंन्यासपदम् , वरकाणातीर्थे चोपाध्यायपदं प्रदाय, सिरोहीनगरे चांगामन्त्रिविहितमहामहेनाऽऽचार्यपदं वि० १६१० वर्षे पौषशुक्लपञ्चम्यां दत्त्वा श्रीहीरविजयसूरिरित्यभिधानमकृत । गच्छाधिपतिरेष हीरविजयसूरिमरु-मालवमेदपाद-गुर्जर-पञ्चालप्रमुखदेशेऽप्रतिबद्धविहारेण निजोपदेशतः सहस्रशो जनाजेनरसिकानकरोत् । सिरोही-स्तम्भतीर्थ-सौरीपुर-फतेपुराऽऽगरा-विराटनगर–वटपल्लीत्यादिपुरेषु महतामहेन सङ्घसम्मेलनपुरस्सराऽनेकाऽऽहतप्रतिमानां प्रतिष्ठाअनशलाका अमुना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org