________________
( ३२८ )
श्रीकल्पसूत्रार्थप्रबोधिनी.
चतुरशीतिवारान् विक्रमीय १०१० वर्षे व्यजेष्ट । प्रान्ते राजसभायामेवमुवाच योगी - राजन् ! आवयोर्मध्ये योहि वल्लभीपुरान्निजनिजाऽभीष्टमन्दिर मुड्डाय्याऽत्राऽऽनयेत, प्रत्यूषे च तृतीयवारं कोक्कुटं रवं श्रुत्वा यथास्थानमेव तिष्ठेत् स विजयी, यो हि नियमममुमतिक्रामेत्स हारितः । आचार्योप्येनममन्यत । ततो द्वावपि स्वस्वाभीष्टमन्दिर मुड्डाय्य व्योमपथेन नारदपुरी परिसरमानिन्याते । तदा मत्तः प्रागयं मा यातु पुरीमिति धिया योगी कुक्कुटीभूय ग्रामे जल्पितुं लग्नः । तदारखं शृण्वताऽऽचार्येण तत्रैव तस्थे, अस्थापि च ग्रामाद्वहिरेव तन्मन्दिरम् | योगी च प्रतिज्ञां भक्त्वा निजाऽऽनीतशिवालयं नगरान्तरानयत । प्रभाते च नृपादयः सर्वे सभ्यास्तत्कपटं विदिखा सुरेर्जयं योगिनः पराजयं च बभाषिरे ।
अथाssचार्य एकदा सङ्घमब्रवीत् - आयुर्मे स्वल्पमेवाऽस्त्यतः परम् । विपन्ने च मयि मन्मौलिरत्नमादातुं योगी यथाशक्ति प्रयतिष्यते, करिष्यते चाऽग्निसंस्कारसमये महावृष्टिवाताभ्यामुपसर्गम् । अतः प्रागेव मन्मस्तकमणिं स्फोटयित्वाऽग्निना संस्कर्त्तव्यः शवः । क्वचिच्चै - वम्- यर्हि योगी शूकररूपेण मे मस्तकमणिमादित्सुरागच्छेत्तर्हि मयका सचैव सोऽपि दाह्य एव यतस्तस्यापि मृत्युरेवंभूत एव विहितः, विद्यते लेखः इत्थं सर्वं सूचयित्वा यशोभद्रसूरिः समाधिना विक्रम सं० १०२९ संस्कृत चरित्रलेखानुसृत्या १०३९ तमे वर्षे द्यवि न्यवात्सीत् । ततो महो त्सवं वितन्वानः सङ्घस्तच्छवं देवविमानोपमायां वैकुण्ठ्यां निधाय श्मशानभूमौ समानीय चन्दनेन्धनरचितायां चितायां स्थापयाञ्चक्रे । सोऽपि योगी चितोपरिच्छत्रं तदुपरि क्षरत्क्षीरपात्रं संस्थाप्य व्योम्न्यतिष्ठत् । तदवसरे श्रावका गुरुदत्ताऽऽदेशानुसारेण गुरोः शिरोमणि स्फोटयित्वा वह्निं संयोजयामासुः । तदा शिरोमणेर्ब्रह्माण्डस्फोटिनि शब्दे जाते स्फुटितहृदयो योगी स्वत एव गगनात्तस्यामेव ज्वलन्त्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org