________________
नवमं व्याख्यानम् ।
( ३२७ ) चार्य सर्व सङ्घः । सूरिरब्रवीत्-भद्र ! चिन्तां त्यज, एतदपहारिणमद्यदिनाविंशतितमे दिवसे दीव्यन्तमाघाटपुरस्थं भवद्भटो नूनं ग्रहीष्यति । समस्तमाभूषणमेकस्यां वाप्यां शिलातलेऽमुना गोपितं वरीवृत्यते । सर्वं श्रद्दधानः संघाधिपति दैव स्वभट तत्र प्रेष्य तथावस्थं चौरं गृही. त्वा लात्वा च सर्वमाभूषणं निबध्य च गाढं स्वान्तिकमानीनयत् । ततो भगवतः सकलाऽऽभरणं परिधाप्य गुरोराज्ञया तं स्तेनममुञ्चत । तदनन्तरमाचा पुरस्कृत्याऽऽघाटनारमुपगत्तवान् सङ्घः।
अथाऽसौ तन्नगराद्विहृत्य नाडलाई ग्राममागत्य चतुर्मासी तत्रैव तस्थिवान् । अत्र स एव विप्रबालः केसियानामा नूनं त्वच्छिरः कपालमादास्यामि, इति पुरा कृतप्रतिज्ञोऽधिगताऽनेकसिद्धविद्यो योगिवेषं कृत्वा व्याख्यानवेलायां सदसि समायातः । स च निजजटाजूटतः फणिद्वयं महाभीषणं निर्गमयाञ्चकार, तेन सर्वे सभ्याः क्षोभमापन्ना भृशमाचुकुशुः । तत आचार्यस्तत्कालमेव मुखवस्त्रिका द्विधाकृत्य नकु. लद्वयीमजीजनत् , तौ च परिसरन्तौ भोगिनौ पश्यत्सु सर्वेषु गृहीत्वा निरगच्छतां बहिः । ततः सर्वे शान्तिमापुः । अयमेव योगी पुनरेकदा श्रमणीमेकां प्रमत्तामहत्त्रतिमाञ्च विमुखां कुत्वाऽऽचार्यसमीपभागात् । समायातमेनं सम्मान्याऽऽसन्नाऽभिमन्त्रितपट्टान्तरे समुपावेश्य घटी. द्वयमाललाप सः । गोचरीवेलायामाचार्य उत्तिष्ठति सति योग्यपि समुत्थितुमलगत्, परन्तु पट्टस्य संसक्तत्वेन समुत्थितुमक्षमो भृशं खिद्यमानः, किङ्कर्त्तव्यतामूढः, स योगी मनसि विवेद-साव्याः प्रति. मायाश्च वैरूप्यकरणस्य फलं मयका सम्प्रत्येषोऽनुभावयते । ततोऽष्टोत्तरशतकूपोदकमानाय्य मन्त्रितेन तेनोदकेन तयोः सजीकरणानन्तरमाचार्यों योगिनं तत्पीडातोऽमोचयत् । अथैकदा योगी राजानं विज्ञप्य यशोभद्रसूरि चर्चार्थमाकारयाञ्चके । ततः सूरी राजसदसि समागत्य पश्यत्स्वेव नृपादिवर्गेषु मान्त्रिक शास्त्रीयश्च वादं विधाय,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org