________________
( ३२६ )
श्रीकल्पसूत्रार्थप्रबोधिनी. षण्डेरकग्रामे महामहेन प्रतिष्ठाकार्याणि प्रावर्त्तयत, परन्तु समागत. जनताया बाहुल्येन जेमनवारे घृतानि रिक्ततामापेदिरे, अतः सङ्घस्य महती चिन्ता समुत्पेदे । एतां वार्तामाकर्ण्य तदैवाऽयं विद्याबलेन पालीपुरीयधनराजशाहगृहाद् घृतमानाय्य तत्र जेमनशालायां घृतपात्रमपिपः । एवं सङ्घचिन्तां निरस्य जरीहृष्यताऽमुना प्रतिष्ठामपारयत् । तदनु मेदपाटदेशे चाऽऽघाटनगर्यामल्लटराजमन्त्रिकारिते चैत्ये पार्श्वनाथबिम्बं प्रातिष्ठिपत् । तत आहड-करहेट-कविलाण-शाकम्भरी-भेसरोति पञ्चस्वपि ग्रामेषु सङ्घात्याग्रहेण पञ्चधा भूत्वा युगपदेकस्मिन्नेव लग्ने सर्वत्र प्रतिष्ठामकरोत् । तत्र कविलाणग्रामे प्रतिष्ठोत्सवे दर्शकानां संख्याऽऽधिक्ये समुपस्थिते कूपादिजलाशयेषु शुष्कतामुपनीतेषु जलाsभावेन सर्वेषु जनेषु त्रायस्व त्रायस्वेति कुर्वत्सु निजनखैश्चन्दनं क्षिप्त्वा पञ्चनवति कूपानसौ तत्कालमेव सुपेयजलपूर्णानकार्षीत् । पप्रथे च तेष्वेको मुख्यः कूपो ' नखसूत' नाम्ना । ____ अथैकदा आहडनगरनिवासी भद्रव्यवहारी शत्रुञ्जयरैवतयोर्यात्रार्थं महान्तं सङ्घ निर्गमयाम्नभूव । तत्र सङ्घपतेरत्याग्रहेण सपरिवारो यशोभद्रसूरिरपि यात्रायै चचाल । क्रमशः पत्तनपुराऽऽसन्नमागते तत्सङ्घ तत्रत्यो राजा मूलदेवः सङ्घन सहैनमाचार्यमत्यर्थं सच्चक्रे । ततोऽग्रे चलितोऽधिमार्ग जलमलभमानाः सर्वे व्याकुलतां निन्यिरे । तदा सङ्घपतिभद्रप्रार्थितोऽसक शुष्कमेकं सरो विद्यायोगेन सुमिष्टवारिपूर्णमकृत । तदालोकमानः सकलः सङ्घोऽजर्द्धपीत् । अमुनैव हेतुना ततः प्रभृति तत्सरः ' साधुसरोवरं ' इति नाम्ना प्रासिध्यत्तमाम् । इत्थमाचार्येण स्ववितः सङ्घः सिद्धाचलयात्रां विधाय रैवतगिरिमायात् । तत्र सङ्घपतिरष्टदिवसान् स्थित्वाऽऽष्टाझिकमहोत्सवं वितन्वानो मणिरत्नजटितमहार्हविभूषणं श्रीनेमिनावविभोः प्रतिगोपरि निधाय समानर्च । परन्तु कश्चिच्चौरः कस्यापि भेदेन तदाभूषणमपाहार्षीत् । तदवेदयदा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org