________________
नवमं व्याक्यानम् ।
( ३२५ )
तत्र चानकाद्वजातयिर्वणिग्जातयिश्च शिशुभिः सहाऽसावभ्यसितुमलगत् । अथैकदा केसियाऽऽख्य-द्विजतनुजस्य मसिपात्रमेष जग्राह, तच्चाऽऽदीयमानमेव पाणेः पतित्वाऽस्फुटत् । तदनु तेन शिशुना याचिते मसिपात्रे तद्विशिष्टं तत्तुल्यमन्यद्दातुमलगदसौ । तदोवाच सः - अहं तदेव लास्यामि, तदलाभे तव शिरःकपालमेव, तर्ह्येव मां ब्रह्मप्रभवमवगच्छेः । तदुत्तरमदात्सुधर्मा - चेदहं मृत्वापि त्वां न हन्यां तर्हि वणिक्पुत्रो न स्यामिति तथ्यं विदाङ्कुरु । ततो नवाऽब्दिकः सुधर्मा पित्रोरादेशमादाय श्री ईश्वरसूरिपार्श्वे दीक्षामाददिवान् । अर्थातवांश्चाऽचिरादेव श्रुताध्ययनीयानि । ततोऽसौ मुडाराग्रामे बदरीदेवीमाराध्य वादिविजयित्वमध्यगच्छत् । तदनु गुरुरस्मा आचार्यपदं दत्त्वा यशोभद्रसूरिरित्याख्यां कृतवान् । यावज्जीवमेष विकृतिषट्कत्यागेन कवलाऽष्टकमेव भोक्तुमभिजग्राह । एतदतिदुष्करत पोमहिम्नाऽनेकाऽतिशयांश्चाऽसौ लब्धवान् । अन्यदा गुरुणादिष्टोऽसौ पालीनगरमागात् । तत्र यस्यां दिश्यसौ स्थण्डिलार्थं याति स्म, तन्मार्गे सूर्यमन्दिर आसीत् । स चैतत्साधव्यकर्मणा प्रसद्य तस्मा एकामञ्जनकुपिकां सिद्धविद्यावल्याः स्वर्णाक्षरीयमेकं पुस्तकञ्च समर्पयाञ्चक्रे । तदञ्जनाऽभ्यक्तलोचनः स त्रिलोकीस्थं सकलं वस्तु करामलकमिव द्रष्टुं लग्नः । स्वर्णाक्षर पुस्तकेन च गगनगामिनी-रूपपरावर्त्तिनीप्रमुखाः सिद्धविद्याः शिक्षित्वाऽप्रेतनशिष्यादिष्वेतदर्हतामपश्यंस्तत्पुस्तकं पुनस्तत्रैव सूर्यमंदिरे बलभद्रमुनिना न्यासितवान् । स तु तत्पुस्तकात्पत्रत्रयं रक्षित्वा पुस्तकं तत्राऽतिष्ठिपत् । परन्तु सूर्यदेवेनाऽपहृतेषु तेषु बलभद्रो रोरुदीति स्म, ततो गुरोर्वचसा दिनमणिस्तस्मै तानि पत्राणि पुनर्ददौ । घोरतरदुष्करतपोविधानमाहात्म्येनाऽमुष्यांऽष्टापि महासिद्धयः समुत्पेदिरे । यहलेनैष प्रत्यहं चम्पा -ऽष्टापद - सम्मेतशिखर- शत्रुञ्जय - रैवताचलान | मेषां पञ्चानामपि तीर्थानां यात्रां कृत्वैवाऽभ्यवहरति स्म । सङ्घातिशयाऽभ्यर्थनादयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org