________________
(३९४)
मीकापसूधाप्रबोधिनी. कारि, अतस्तदुद्भूतप्रभूतपापाऽपनोदनाथ द्वादशवर्षाणि यात्रा करवा प्रान्ते कश्चिदेको महाराजो बोधितव्यः । इति गौरवीं गिरमुरीकृत्य तथाविधानान्ते विक्रमाऽऽख्यराजेन्द्र प्रतिबोधयितुमुजयिन्यां कालाग्निरुद्रकुडगेश्वर (महाकाल ) देवालये समेत्य शिवाऽभिमुखचरणः सुष्वाप । सेवकैस्ताडितेऽमुष्मिन्नन्तःपुरे राज्यस्ताडिता जाताः। तत्रैवं महाकोलाहले सञ्जाते तदाकर्ण्य चमत्कृतो राजा विक्रमो महता विनयेन तमप्राक्षीत्। सोऽब्रवीत्-राजन् ! शिवलिङ्गमेनं जयेंव नंस्यामि तपेव स्फुटिष्यति । ततो नरपतिप्रार्थनया सूरिणा नमस्कारस्तुतिं कुर्वता द्वात्रिंशद्-द्वात्रिंशिकाऽऽद्यकाव्यमपाठि, तेन च तल्लिङ्गं द्विधा जातम् । तस्माच सधूमे तेजसि निर्गते नाभेयमूर्तिर्निरगात् । तदाश्चर्यमुदीक्ष्य विक्रमार्कस्तच्छिष्यतां ( श्रद्धालुतां ) सपरिवारः समीयिवान् । एतदुपदेशादसौ राजा शत्रुञ्जयादियानां सङ्घन सह कृतवान् , उद्धृतवांश्च, चालितवांश्च निजनाम्नासम्वत्सरम् । विक्रमक्षितिपतिदत्तसम्मानप्रसङ्गेन सिद्धसेनो याप्ययाने समासितुं लग्नः, परन्तु गुरुवृद्धवादिसूरिणा वारितः पुनः संयमभावे तस्थौ। ततो गुरुरस्मा आचार्यपदं दत्त्वा गच्छीयभारमार्पयत्। प्राच्यपट्टावल्य एत. सत्तां विक्रमीयप्रथमशताब्द्याम् ,आधुनिकाः संशोधकास्तु पञ्चम्यां शताब्द्यां निगदन्ति । सम्प्रति तद्रचिता द्वात्रिंशिका, न्यायावतारः, सन्मतितर्क इत्यादयो ग्रन्था उपलभ्यन्ते । इत्थमयमपि जैनशासने महावादी, महातार्किको महानैयायिकश्च समभूत् । १३३ षंडेरकगन्छीययशोभद्रसूरिनिबन्धः
अर्बुदाचलोपकण्ठं पलासीपुर्या पुण्यसारश्रेष्ठिनः पत्नी गुणसुन्दरी सुधर्मानामानं पुत्रं प्रासोष्ट । असौ पञ्चमेऽब्दे लेखनशालायामुपावेशितः
१ कल्याणमन्दिरस्तवेन स्तवनाच्छिवलिङ्गे स्फुटिसे श्रीपार्श्वनाथीयप्रतिमा प्राकट्यं निन्ये । अयमपि लेखः कियत्सु प्रन्थेषु दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org