________________
नवमं व्याख्यानम् ।
( ३२३ )
मन्त्रिकारिते कोरण्टनगरे च श्रीसङ्घकारिते मन्दिरे माघशुक्लपञ्चमीगुरुघस्रे धनुर्लग्ने ब्राह्मे मुहूर्त्ते रत्नप्रभसूरी रूपद्वयं कृत्वा ओशियायां मूलरूपेण, वैक्रियरूपेण कोरण्टके च प्रातिष्ठिपत् ।
"
कतिपय पट्टावलीषु लिखन्त्येवम्- 'असौ सहस्रशो जिनप्रतिमाः प्रत्यष्ठापयत्, प्रायो दशलक्ष जैनेतरान् प्रतिबोध्याऽऽर्हतधर्मानुरागिणश्चक्रि वान्, कृतवांश्च महासङ्घन सहैकविंशतिवारान् सिद्धाचलीयां यात्राम् । ' एवमसौ जैनशासनमहोन्नतिं विधाय कृत्वा च मासिकीं संलेखनां सिद्धाचलोपरि स्वर्लोकमगात् । ' उएस' इत्यस्य ओशवंशस्य च निदानमेष एवास्ति । वीरनिर्वाणतः ' वीए बावीसे ' ओशवंशस्थापनां जल्पन्ति कियन्तः कुलगुरुत्रः, परमेतन्निर्मूलमेव । उपकेशगच्छचरित्रनाभिनन्दनोद्धारप्रबन्ध-उपकेश गच्छपट्टावलीप्रमुखा ग्रन्था वीरनिर्वाणात्सप्ततितमवर्षमेव निगदन्ति । आसीञ्चैष विद्याधरकुलोत्पन्नः पार्श्वनाथ सन्तानी य केशिगणधरप्रशिष्यश्चतुर्दशपूर्वधर्त्ता श्रुतकेवली ।
१३२ वृद्धवादि-सिद्ध सेनदिवाकरयोर्निबन्ध:
श्री सुहस्तिसूरिशिष्याणामेको वृद्धसाधु रत्युच्चैरकाले पठन् राज्ञा दृष्ट्वाऽभाणि - भोः ! किमेवं मुसलमपि पुष्पयिष्यसि ? | नृपाऽवज्ञामसहमानः स वाग्देवीमाराध्य तत्प्रसादेन सर्वविद्यासु पटीयान् भूत्वा शृङ्गाटके मुसलमारोप्य फुल्लयामास, तेन च सर्वे नृपादयश्चमत्कृता जाता: । ततोऽसौ वृद्धवादिसूरिः प्राच्यलाटदेशमण्डन भृगुकच्छपुराऽलङ्कारिशकुनिकाविहारे समायातः । तत्र च ' यो मां जयेत्तस्याऽहं भविष्यामि शिष्यः' इति कृतप्रतिज्ञं विद्याऽखर्वगर्वधरं दक्षिणपथाऽऽयातं कर्णाटभ दिवाकराभिधानं शास्त्रचर्चायां विजित्य शिष्यमकरोत् ।
अयमेकदा गुरुमप्राक्षीत् भगवन् ! सकलमपि जैनाऽऽगमं संस्कृतनयं चिकीर्षामि । गुरुराख्यत् त्वयाऽमुना तीर्थकृद्वचसामाशातनाऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org