________________
श्री कल्पसूत्रार्थप्रबोधिनी.
कुमारपालप्रबन्धादिग्रन्थेभ्यो विज्ञैर्विज्ञेया । इत्थं शासनसेवां विधाय कलिकाल सर्वज्ञो हेमचन्द्राचार्यः ९ वर्षाणि गार्हस्थ्ये, १२ वर्षाणि दीक्षायाम्, ६३ वर्षाणि सूरिपदे चेत्थं सर्वायुश्चतुरशीतिवर्षाण्युपभुज्य विक्रमसंवत् १२२९ तमे वर्षे समाधिना स्वर्लोक मध्यवात्सीत् । आसीचायं कोटिकगणीयवज्रशाखीयचन्द्रकुलस्याऽऽचार्यः, परन्तु त्रिषष्टिशलाकापुरुषचरित्रस्य प्रशस्त्यामसौ स्वं पूर्णतल्लीयमलेखीत्, अमुनाऽनुमीयते - यन्मूलगच्छः कौटिकगण एव, पूर्णतल्लगच्छस्तु तदवान्तरभेदः । एतत्पट्टधरः प्रखर विद्वान् कतिपयग्रन्थानां रचयिता श्रीरामचन्द्रसूरिरभूत् ।
१३१ श्रीरत्नप्रभसूरिनिबन्धः-
( ३२२ )
श्रीकेशीस्वामिनः पहालङ्करिष्णुः स्वयभ्प्रभाचार्यः पञ्चशतमुनिमण्डल्या संजुष्यमाणः श्रीमालनगरे बहिरुद्याने स्थित आसीत् । तदवसरे वैताढ्य गिरिस्वामी मणिरत्नापरनामरत्नचूडविद्याधरो लक्षविधानैर्नन्दीश्वरद्वीपयात्रां विधाय सिद्धाचलतीर्थयात्राचिकीर्षुस्तेन पथा गच्छंस्तत्रोद्याने स्वयम्प्रभाचार्यमालोक्य सपरिवारो नीचैरवतीर्य तं यथावदवन्दत । तदा सोऽपि तस्मै हृदयग्राह्यां धर्मदेशनामदात् । तया प्रतिबुद्धो मणिरत्नः स्वपुत्राय राज्यासनं प्रदाय पञ्चशतविद्याधरैः सार्धं तत्पार्श्वे दीक्षां ललौ, स्थित्वा च गुरुसन्निधावचिरादेवाऽनवरताऽभ्यासेन चतुर्दशपूर्व धारी जज्ञे । ततो योग्यं तमवगत्य वीरनिर्वाणतो द्विपञ्चाशत्तमे वर्षे गुरुस्तरमा आचार्यपदं प्रदाय ' श्रीरत्नप्रभसूरिः' इत्याख्यां दधे । ततोऽसौ निजोपदेशेन चमत्कारिप्रभावदर्शनेन च राजेोपलदेवादिसपादलक्षक्षत्रियांस्तन्मन्त्रिण ऊहड - ऊधराद्यष्टादशसहस्रमहाजन कुटुम्बांच प्रतिबोध्य महाजनसङ्घमोशवंशञ्च स्थापयाञ्चक्रे । एवमेषां क्षत्रियाणां कुलदेवीं चण्डिकामपि दयाधर्मरसिकां कृत्वा 'सत्यकामाता' इत्याख्यां स्थिरयामास । श्रीवीरनिर्वाणतः सप्ततितमेऽब्दे ओशियानगरे ऊहड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org