________________
नवमं व्याख्यानम् ।
(३२१) नीय यावज्जीवं मानभ्रष्टस्तथा कारितो राज्ञा यथा स जात्वपि जैनमुनिना सत्रा शास्त्रार्थस्य नामापि नो गृह्णीयात् । अतएवाऽष्टादशदेशाधिपा राजान एकीभूय हेमचन्द्रसूरये 'कलिकालसर्वज्ञ ' इति विरुदं ददुः। राज्ञः कुमारपालस्य कुलदेव्यै महिषबलिराश्विनचैत्रमाघमासीयनवरात्रोत्सवे शाश्वतमासीत् । तमाहतधर्मस्वीकारे कुमारपालो न्यवर्तयत् । तेन प्रकुपिता देवी राजानं पीडयितुं लग्ना । ततो हेमचन्द्रसूरिणा मन्त्रेणाss. कृष्य महाक्लिष्टा यावज्जीवं राज्ञो महिषबलिमजहात् । अग्रहीच स्वयमप्याजन्म सत्यमहिंसामयमार्हतमेव धर्मम् ।
असौ हेमचन्द्रसूरिराहते शासने प्रावचनिको धर्मोपदेष्टा, कविः, प्रभावकश्चाऽभूत्तमाम् । शासनसेवनमप्यसौ द्विधाऽकार्षीत्-तत्रैकन्तु राज्ञः प्रतिबोध्य जैनीकृत्वा तैश्च जैनसिद्धान्तं समस्तदेशे व्यतीतनत् । सर्वागसुन्दरसाहित्यविरचनेन जैनशासनस्य गुर्जरदेशमुखस्य च समुज्ज्वलीकरणमपरञ्च । एतद्रचितग्रन्थराशिमध्ये साम्प्रतम् १ योगशास्त्रम् , २ प्रमाणशास्त्रम् , ३ प्रमाणमीमांसा, ४ छन्दःशास्त्रम् , ५ अलङ्कारचूडामणिः, ६ अनेकार्थकोषः, ७ अभिधानचिन्तामणिः, ८ उणादिसूत्रवृत्तिः, ९ उणादिसूत्रविवरणम्, १० सवृत्तिधातुपाठः, ११ सवृत्तिधातुपारायणम् , १२ धातुमाला १३ निघण्टशेषः, १४ बलाऽबलसूत्रवृत्तिः, १५ शेषसंग्रहनाममाला, १६ शेषसंग्रहसारोद्धारः, १७ सवृत्तिविवरणलिङ्गानुशासनम् , १८ हेमवादानुशासनम्, १९ हेममञ्जूषा, २० महावीरद्वात्रिंशिका, २१ द्याश्रयकाव्यम्, २२ देशीनाममाला, २३ शीलो. ञ्छनाममाला, २४ वीतरागस्तवः, २५ त्रिषष्टिशलाकापुरुषचरित्रम्, २६ षड्दर्शनविचारः, २७ जातिव्यावृतिन्यायः, २८ अन्यदर्शनवादविवादः, २९ पाण्डवचरित्रम् , इत्यादयो ग्रन्था उपलभ्यन्ते । अमुष्य जीवनेsनेकचमत्कारिघटनावार्थोपलभ्यते, सा तु श्रीकुमारपालमहाकाव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org