________________
( ३३०)
श्रीकरुपसूत्रार्थप्रबोधिनी. पुण्ययोः प्राबल्येन राज्ञः सर्वेऽपि यत्ना वैफल्यमेवाऽवजन् । यहि वैक्रमे ११९९ वर्षे राजनि सिद्धराजजयसिंहे स्वर्याते त्रिभुवनपालपुत्रः कुमारपालस्तदासनं जग्राह। अयं हि निजप्रचण्डभुजदण्डबलादरातिवर्ग सामस्त्येन विजित्य, दिग्जयश्रियं वितत्य स्वराज्यं विशालमकरोत् । ततो महामात्यवाग्भटोरतो राजा कुमारपालो हेमचन्द्रसूरिमानाय्य मुदा तदुपदेशं श्रावं श्रावं जैनसिद्धान्तं समभ्यस्य तदन्तिके श्रावकीयद्वादशवतं जग्राह । न तावदेव, किन्तु स्वदेशेषु चतुर्दशमित्रराज्येषु च सर्वत्राऽमारिपटहं सङ्घोष्य मद्य-मांस-देवनसेवन-वेश्यागमनाऽऽखे. टकरण-स्तैन्य-परदारागमनलक्षणसप्तव्यसनिनः स्वराज्यान्निरगमयच्च । अतएव 'परमार्हत ' ' राजर्षि ' ' राजपितामह ' ' परनारीसहोदर' 'विचारचतुर्मुख ' ' शरणागतवज्रपञ्जर' · मेघवाहन ' इत्युपाधिससकेन सर्वत्र प्रख्यातिमागात् । अजहाच्चाऽपुत्राणां धनाऽऽदानम् । तारगिरि-रैवतगिरि-सिद्धाचल-स्वगिर्याद्यनेकपावनस्थानेषु गगनचुम्बिजिनचैत्यानि कारयित्वा तेषां सहाञ्जनशलाकया प्रतिष्ठां गुरुणा हेमचन्द्रसूरिणाऽचीकरच्च । तेषु कतिपयानि तान्यद्यापि तत्कीर्ति व्यञ्जन्ति ।
अथैकदा तस्य कुमारपालस्याऽऽहतोपासकतां हापयित्वा वैष्णवोपासकतां विधातुं कश्चिदेको वैष्णवाचार्यों देवबोधिः समागात् । अकरोच्च मान्त्रिक्या विद्यया राजानं संशयालम् । ततो हेमचन्द्रसूरि—पतेः सदसि मन्त्रशास्त्रे प्रमाणशास्त्रे च चर्चा कृत्वा देवबोधि व्यजेष्ट । नह्येतावदेव किन्तु राज्ञः स्वान्ते प्रागिवाऽऽर्हतोपासकतां सुदृढामा
१ प्राच्यां कुरु-शूरसेन-कुशावर्त्त-पञ्चाल-विदेह-दशार्ण-मगधाऽऽदीन, उदीच्या काश्मीरोहियाण-जालन्धर-सपादलक्षपर्वताऽऽदीन, अवाच्या लाट-महाराष्ट्र-तिलनाऽऽदीन , प्रतीच्यां सौराष्ट्र-ब्राह्मण-वाहक-पञ्चनद-सिन्धु-सौवीरादीन् देशानसावशिषदिति सोमसुन्दरसूरिशिष्यजिनमण्डनगणिकृतकुमारपालप्रबन्धेऽलेखि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org