SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ नवमं व्याख्यानम् । (३१६) अतएव विज्ञेन त्वयैतन्निर्गतव्यम् । तत एतनिश्चिचीषू राजा तमाचार्यमपृच्छत् । सोऽवक्-राजन् । भारतीयोक्त्या मदुक्तौ नास्त्यसामञ्जस्यम् , चेदुभयत्र पञ्चैव ते मन्येरंस्तझैव तत्सम्भाव्येत । राजोवाच-भगवन् । किन्ते पञ्चभ्योऽधिका आसन् ?, गुरुराख्यत्-अथ किम् ?, यतो भारतमेव तदाधिक्यं व्यनक्ति । यहि भैष्मं शवमुद्वाह्य कस्यचिन्नगस्योपरि तत्परिजनाः संस्कर्तुमलगन्, तर्हि दिव्यावागभवत् अत्र भीष्मशतं दग्धं, पाण्डवानां शतत्रयम् । द्रोणाचार्यसहस्रन्तु, कर्णसंख्या न विद्यते ॥ इति व्यक्तमेव तेषामनेकत्वम् । तत्राऽऽर्हतपञ्चानां तेषां सिद्धाचलोपरि निर्वाणोक्तौ को विरोधः ?, इत्याचार्यवचसा राजा प्रससाद, वैपक्षिकास्ते मौनमेव भेजिरे । एवमेवैकदा नृपसदसि राजपुरोहिताssलिगप्रमुखा आख्यन्-राजन् ! जैनसाधूनां व्याख्याने महिला आयान्ति, ददति च ता एभ्यः सरसं भोजनम् । एवं सत्येषु ब्रह्मचर्यसंरक्षणं कथं सम्भवति ? । अस्याप्याचार्यःसिंहो बली द्विरदशूकरमांसभोजी, सम्बत्सरेण रतिमेति किलैकवेलम् ! पारापतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः।१। अमुना श्लोकेन मुखत्रोटमुत्तरमकृत, तच्छ्रुत्वा पुनस्ते किमपि वक्तुं नोत्सेहिरे। अथ पुत्रकामो राजा हेमचन्द्रसूरिणा सह शत्रुञ्जयगिरिरैवतगिर्योर्यात्रां विधाय सोमेश्वरपत्तनं गत्वा ' कोडिनार ' पुर्यामम्बादेव्यादर्शनार्थमाययौ । अत्राचार्य उपवासत्रयीं विधाय देवीमारराध । प्रत्यक्षीभूय साऽऽख्यत्-' राजा सिद्धराजः पुत्रं' नाऽप्स्यति, तदुत्तराधिकारी च तपितृव्यपुत्रस्य भ्रातुः प्रपौत्रः कुमारपालो भविता ।' इति व्याहृत्य साऽदृश्यतामापत् । आचार्यः सर्वमेतत्सिद्धराजमाचचक्षे । ततो राजा कुमारपालविघाताय यावच्छक्तिं प्रायतत, परमेतस्याऽऽयु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy