________________
(३१८)
श्रीकल्पसूत्रार्थप्रबोधिनी. भोजराजकृतव्याकरण-तर्कालङ्कार-वैद्यक-ज्योतिर्वास्तुशास्त्राऽध्यात्मशास्त्रसंग्रहमवलोक्य नवीनव्याकरणादि निर्माप्य सङ्ग्रहीतुंमनसि चकमे। ततो राजा गुर्जरीयाऽनेकविदुषः समाकार्य निजेच्छां व्यानञ्ज । परन्तु तदानीन्तनानां गुर्जरीयविपश्चितामीदृशः कोऽपि नाऽऽसीत् , यो हीदृशं सर्वाङ्गीणं नव्यं व्याकरणं रचयेत । अत एतत्सम्पादनाय सर्वे हेमचन्द्रस्यैव नामाऽब्रुवन् । तदनु सिद्धराजस्य महत्या प्रार्थनया हेमचन्द्रसूरिः सिद्धहेमशब्दानुशासनं नामाऽपरं व्याकरणं निरमिनोत् । पुनरेतल्लघुवृत्ति-बृहद्वृत्ति-धातुपाठ-लिङ्गानुशासनाद्युपयुक्तान्यङ्गानि निर्माय समलङ्करोच्च । ततः सिद्धराजो नियतीकृतलेखकशतत्रय्या तस्या बह्वीः प्रतिलिपीरलेखयत् । तासु विंशतिं काश्मीरे सरस्वतीभाण्डागारे, शेषाश्चाङ्ग-वङ्ग-कलिङ्ग-लाट-कर्णाट-कोकन-सौराष्ट्र-महाराष्ट्र-कच्छमालव-सिन्धु-सौवीर-नेपाल-पारसीक-मुरुण्डक-गङ्गापार-हरिद्वारकाशी-चेदि-गया-कुरुक्षेत्र-गौड-कामरूप-सपादलक्ष-जालन्धर-सिंहल-महाबोधादिदेशेषु प्रेषीत् । एतदभिनवव्याकरणपठनपाठनार्थ गुरोरादेशेन काकलाख्यं कायस्थं व्याकराणादिविविधशास्त्राऽध्यापनपटीयांसं न्ययुक्त । प्रतिमासश्च शुक्लपञ्चम्यां परीक्ष्य समुत्तीर्णच्छात्रेभ्यः स्वर्णाभूषणानि ददते स्म स भूजानिः । सम्पूर्ण तदधीत्य पाण्डित्यं सम्पाद्य गृहं गच्छतस्ताञ्छिबिकासनच्छत्रस्वर्णाभरणादिप्रदानेन सत्कुर्वन्नासीच्च । अतस्तत्पठनपाठनपरिपाटी सर्वत्र वरीवृधाश्चके । ____ इत्थं हेमचन्द्रसूरे राजसत्कृति दर्श दर्श मनसि दोदूयमाना भूसुराः सिद्धराजं ततो निवर्तयितुं यथाशक्ति प्रयेतिरे । अथैकदा हेमचन्द्रसूरिश्चतुर्मुखचैत्ये व्याचक्षाणो बहुषु जैनजैनेतरश्रोतृवर्गेषु शृण्वत्सु पञ्चापि पाण्डवानां शत्रुञ्जयगिरौ सिद्धिगमनमब्रवीत् । तदाकर्ण्य तवेषिणो ब्राह्मणा राजानमब्रुवन्-राजन् ! विरुद्धमिदं भाषते सूरिः, यतो महाभारते कृष्णद्वैपायनो वेदव्यासस्तेषां स्वर्गमनं हिमाचलोपरि निजगाद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org