________________
नवमं व्याख्यानम् ।
(३१७) १३० श्रीहेमचन्द्रसूरिनिबन्धः__ तत्र गुर्जरदेशे धन्धुकापुर्यां मोढवंशावतंसचाचाऽभिधानश्रेष्ठिनः ' पाहिनी' नाम्न्या धर्मपत्न्याः सुशीलायाः कुक्षितः सं० ११४५ वर्षे कार्तिक्यां पूर्णिमायां मध्यरात्रे प्रादुरासीदसौ। पप्रथे च गार्हस्थ्ये चङ्गदेवाभिधानेन । ततः कौटिकगणीयवज्रशाखा-चन्द्रकुलयोराचार्यः श्रीदेवचन्द्रसूरिः स्तम्भतीर्थस्य पार्श्वनाथचैत्ये वैक्रमे ११५० वत्सरे तपःशुक्लचतुर्दशीशनौ पाहिनीमातुरादेशेन चङ्गदेवं दीक्षयित्वा' सोमचन्द्र' इति नाम धृतवान् । ततो गुरुकुले वसन्नसको व्याकरणन्यायकाव्यसाहित्यादीनि सम्यगधीत्याऽसाधारणं पाण्डित्यमाप। ततोऽप्यतिशयबुद्धिविकाशाय सिद्धसारस्वतपदप्राप्तये च गुर्वाज्ञां लात्वा, कतिपयगीताथैः सह सोमचन्द्रः काश्मीरदिशि प्रययौ । प्रथमदिने स्तम्भतीर्थान्तिके रैवतावतारतीर्थमागत्य धर्मशालायां तस्थिवान् । तत्र गीतार्थमुनिगणानुमत्या सोमचन्द्र एकाग्रमनसा जपितुमलगत्सरस्वतीमन्त्रम् । अर्धरात्रे च सरस्वतीदेवी प्रत्यक्षीभूय · सिद्धसारस्वतो भव' इति वरमस्मै दत्तवती, निगदितवती च- भोः ! काश्मीरजिगमिषामुज्झ, मत्प्रसादेन सर्वासु विद्यासु नैपुण्यं ते भविष्यति ' एवं व्याहृत्य देवी तिरोदधे। तदनु प्रातरेव गुरोः पार्श्वमेत्य सरस्वत्या वरदानादिकमुवाच, तच्छ्रुत्वा गुरुः प्रामोमुदीत्तमाम् ।
विक्रम सं० ११६६ वर्षे वैशाखशुक्लतृतीयायां मध्याह्नवेलायां देवचन्द्रसूरिः सोमचन्द्रायाऽऽचार्यपदं प्रदाय, हेमचन्द्रसूरिरित्याख्यांदधार। तदवसर एव स्वजनन्यै पाहिन्या अपि प्रवर्तिनीपदं दापयित्वा तत्पट्टमधिरोढुं गुरुणाऽऽदेशयच्च ताम्। ततो हेमचन्द्रसूरिरणहिल्लपुरमागतवान्। यातवांश्च तत्र सिद्धराजक्षितिपतेरधिसभं मुख्यत्वम् । तत एतच्छभदनिप्रसङ्गात् सिद्धराजो मालवदेशं जित्वा, धारानगरे भोजराजसङ्ग्रहीतमनेकविशिष्टवस्तुभिः सार्धं ज्ञानभाण्डागारं स्वायत्तमकरोत् । तत्र च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org