SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ (३१६) श्रीकल्पसूत्रार्थप्रबोधिनी. प्रमाढ्यं विद्वत्तापूर्णपरिचायकं प्रमाणनयतत्वालोकाऽलङ्कारनामकप्रमाणशास्त्रीयबृहद्विवरणलक्षणं स्याद्वादरत्नाकरं नामग्रन्थम् । कृतवन्तौ चैतन्निर्मितो तदन्तेसदौ विद्वांसौ भद्रेश्वर-रत्नप्रभाचार्यों साहाय्यम् । आसीच्चाऽमुष्य शिष्यसमुदाये कार्यदाक्षिण्यं, विद्याव्यसनित्वं चारित्रपात्रत्वं च । अतएवाऽनेकजिनमन्दिरसंभालनादिकारिताऽप्यमुष्मिन्नासीत् । निरैक्षिष्ट च स स्वयमेव तेषां सर्वेषां याथातथ्येन सर्वम् । धन्वनि जालोरनगरीयशतघ्नीप्रासादे वर्वर्तीदृशो लेखः-यत्स्वर्णगिरेरुपरि पर माहतराजकुमारपालेन कारितं पार्श्वनाथचैत्यं वादीन्द्रदेवाचार्टीयशिष्यपरिवारस्य समर्पितमासीत् । अबोभोच्चासौ जैनशासने प्रखरो विद्वान्, दिग्गजदेश्यवादिप्रभावकश्च । अमुनैव हेतुना राजदत्तं वादीन्द्रपदप्रमाणपत्रमाचार्यपदं च युगपदेष बिभराञ्चकार । प्रान्ते च निजपट्टभारं भद्रे श्वरसूरि विधाय सं० १२२६ तमे वर्षे नभाकृष्णसप्तमीगुरौ घले समाधिना द्यामगादयम् । एतदीयगुरुशिष्यपरम्परावंशवृक्ष एवं चाचकीति बृहद्गच्छस्थापक-श्रीसर्वदेवसूरिः। श्रीयशोभद्ररिः श्रीनेमिचन्द्रशरिः श्रीमुनिचन्द्रसरित श्रीमानदेवसरिः श्रीअजितदेवरिः श्रीवादिदेववरिः श्रीमानन्दारित श्रीविजयसिंहमूरिः | __भद्रेश्वरसूरिः रत्नप्रभसूरिः गुणचन्द्रसूतिः पूर्णदेवरित महेश्वरसरिः श्रीहेमचन्द्रसरिः श्रीसोमप्रभसरिः श्रीमणिरत्नसूरिः रामचन्द्रपरिः जयप्रभसरिः जयमङ्गलमरिः रामचंद्रसरित श्रीजगचन्द्रपरिः सोमचन्द्रसरिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002772
Book TitleKalpasutrartha Prabodhini
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1933
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy